लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम् यथा गोः श्रृङ्गित्वं लक्षणम्, लक्ष्यगोवृत्तित्वे सत्यलक्ष्यमहिष्यादिवृत्ति । लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्न-प्रतियोगिताकभेदसामानाधिकरण्यम् ।