नूतनजलधररुचये
गोपवधूटीदुकूललचौराय ।
तस्मै
कृष्णाय नम: संसारमहीरुहस्य बीजाय ।।१।।
द्रव्यं
गुणस्तथा कर्म सामान्यं सविशेषकम् ।
समवायस्तथाऽभाव:
पदार्था: सप्त कीर्तिता: ।।२।।
क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो
मन: ।
द्रव्याणि
अथ गुणा रूपं रसो गन्धस्तत: परम् ।।३।।
स्पर्श:
सङ्ख्या परिमिति: पृथक्त्वं च तत: परम् ।
संयोगश्च
विभागश्च परत्वं चापरत्वकम् ।।४।।
बुद्धि:
सुखं दु:खमिच्छा द्वेषो यत्नो गुरुत्वकम् ।
द्रवत्वं
स्नेह-संस्कारावदृष्टं शब्द एव च ।।५।।
उत्क्षेपणं
ततोऽपक्षेपणमाकुञ्चनं तथा ।
प्रसारणं
च गमनं कर्माण्येतानि पञ्च च ।।६।।
भ्रमणं
रेचनं स्यन्दनोध्र्वज्वलनमेव च ।
तिय्र्यग्गमनमप्यत्र
गमनादेव लभ्यते ।।७।।
सामान्यं
द्विविधं प्रोत्तंâ परं चाऽपरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु
सत्ता परतयोच्यते ।।८।।
परभिन्ना
तु या जाति: सैवापरतयोच्यते ।
द्रव्यत्वादिकजातिस्तु
परापरतयोच्यते ।।९।।
व्यापकत्वात्
पराऽपि स्याद् व्याप्यत्वादपराऽपि च ।
अन्त्यो
नित्यद्रव्यवृत्तिर्विशेष: परिकीर्तित: ।।१०।।
घटादीनां
कपालादौ द्रव्येषु गुणकर्मणो: ।
तेषु
जातेश्च सम्बन्ध: समवाय: प्रकीर्तित: ।।११।।
अभावस्तुद्विधा
संसर्गान्योन्याभावभेदत: ।
प्रागभावस्तथा
ध्वंसोऽप्यत्यन्ताभाव एव च ।।१२।।
एवं
त्रैविध्यमापन्न: संसर्गाभाव इष्यते ।
सप्तानामपि
साधम्र्यं ज्ञेयत्वादिकमुच्यते ।।१३।।
द्रव्यादय:
पञ्च भावा अनेके समवायिन: ।
सत्तावन्तस्त्रयस्त्वाद्या
गुणादिर्निगुणक्रिय: ।।१४।।
सामान्यपरिहीनास्तु
सर्वे जात्यादयो मता: ।
पारिमाण्डल्यभिन्नानां
कारणत्वमुदाहृतम् ।।१५।।
अन्यथासिद्धिशून्यस्य
नियता पूर्ववर्तिता ।
कारणत्वं
भवेत्तस्य त्रैविध्यं परिकीर्तितम् ।।१६।।
समवायिकारणत्वं
ज्ञेयमथाप्यसमवायिहेतुत्वम् ।
एवं
न्यायनयज्ञैस्तृतीयमुत्तंâ निमित्तहेतुत्वम् ।।१७।।
यत्समवेतं
कार्यं भवति ज्ञेयं तु समवायिजनवंâ तत् ।
तत्राऽऽसन्नं
जनवंâ
द्वितीयमाभ्यां परं तृतीयं स्यात् ।।१८।।
येन
सह पूर्वभाव:, कारणमादाय वा यस्य ।
अन्यं
प्रति पूर्वत्वे ज्ञाते यत्पूर्वभावविज्ञानम् ।।१९।।
जनवंâ प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते ।
अतिरिक्तमथापि
यद्भवेन्नियतावश्यकपूर्वभाविन: ।।२०।।
एते
पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् ।
घटादौ
दण्डरूपादि द्वितीयमपि दर्शितम् ।।२१।।
तृतीयं
तु भवेद्व्योम कुलालजनकोऽपर: ।
पञ्चमो
रासभादि: स्यादेतेष्वावश्यकस्त्वसौ ।।२२।।
समवायिकारणत्वं
द्रव्यस्यैवेति विज्ञेयम् ।
गुणकर्ममात्रवृत्ति
ज्ञेयमथाप्यसमवायिहेतुत्वम् ।।२३।।
अन्यत्र
नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते ।
क्षित्यादीनां
नवानां तु द्रव्यत्वं गुणयोगिता ।।२४।।
क्षितिर्जलं
तथा तेज: पवनो मन एव च ।
परापरत्वमूर्तत्वक्रियावेगाश्रया
अमी ।।२५।।
कालखात्मदिशां
सर्वगतत्वं परमं महत् ।
क्षित्यादि
पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ।।२६।।
द्रव्यारम्भश्चतुर्षु
स्यादथाऽऽकाशशरीरिणाम् ।
अव्याप्यवृत्तिक्षणिको
विशेषगुण इष्यते ।।२७।।
रूप-द्रवत्व-प्रत्यक्ष-योगिन:
प्रथमास्त्रय: ।
गुरुणी
द्वे रसवती द्वयोर्नैमित्तिको द्रव: ।।२८।।
आत्मानो
भूतवर्गाश्च विशेषगुणयोगिन: ।
यदुत्तंâ यस्य साधम्र्यं वैधम्र्यमितरस्य तत् ।।२९।।
स्पर्शादयोऽष्टौ
वेगाख्य: संस्कारो मरुतो गुणा: ।
स्पर्शाद्यष्टौ
रूपवेगौ द्रवत्वं तेजसो गुणा:।।३०।।
स्पर्शादयोऽष्टौ
वेगश्च गुरुत्वञ्च द्रवत्वकम् ।
रूपं
रसस्तथा स्नेहो वारिण्येते चतुर्दश ।।३१।।
स्नेहहीना
गन्धयुता: क्षितावेते चतुर्दश ।
बुद्ध्यादिषट्वंâ सङ्ख्यादिपञ्चवंâ भावना तथा ।।३२।।
धर्माधर्मौ
गुणा एते आत्मन: स्युश्चतुर्दश ।
सङ्ख्यादिपञ्चवंâ कालदिशो: शब्दश्च ते च खे ।।३३।।
सङ्ख्यादिपञ्चवंâ बुद्धिरिच्छा यत्नोऽपि चेश्वरे ।
परापरत्वे
सङ्ख्याद्या: पञ्च वेगश्च मानसे ।।३४।।
तत्र
क्षितिर्गन्धहेतु: नानारूपवती मता ।
षड्विधस्तु
रसस्तत्र गन्धस्तु द्विविधो मत: ।।३५।।
स्पर्शस्तस्यास्तु
विज्ञेयो ह्यनुष्णाशीतपाकज: ।
नित्याऽनित्या
च सा द्वेधा नित्या स्यादणुलक्षणा ।।३६।।
अनित्या
तु तदन्या स्यात् सैवाऽवयवयोगिनी ।
सा च
त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ।।३७।।
योजिनादिर्भवेद्देह
इन्द्रियं घ्राणलक्षणम् ।
विषयो
द्वयणुकादिश्च ब्रह्माण्डान्त उदाहृत: ।।३८।।
वर्ण:
शुक्लो रस-स्पर्शो जले मधुर-शीतलौ ।
स्नेहस्तत्र
द्रवत्वं तु सांसिद्धिकमुदाहृतम् ।।३९।।
नित्यतादि
प्रथमवत्,
किन्तु देहमयोनिजम् ।
इन्द्रियं
रसनं सिन्र्धुिहमार्दििवषयो मत: ।।४०।।
उष्ण:
स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् ।
नैमित्तिवंâ द्रवत्वं तु नित्यतादि च पूर्ववत् ।।४१।।
इन्द्रियं
नयनं वह्नि: स्वर्णार्दििवषयो मत: ।
अपाकजोनुष्णाशीतस्पर्शस्तु
पवने मत: ।।४२।।
तिर्यग्गमनवानेष
ज्ञेय: स्पर्शादिलिङ्गक: ।
पूर्ववन्नित्यताद्युत्तंâ देहव्यापि त्वगिन्द्रियम् ।।४३।।
प्राणादिस्तु
महावायुपर्यन्तो विषयो मत: ।
आकाशस्य
तु विज्ञेय: शब्दो वैशेषिको गुण: ।।४४।।
इन्द्रयन्तु
भेवेच्छोत्रमेक: सन्नप्युपाधित: ।
जन्यानां
जनक: काल: जगतामाश्रयो मत: ।।४५।।
परापरत्वधीहेतु:, क्षणादि: स्यादुपाधित: ।
दूरान्तिकादिधीहेतुरेका
नित्या दिगुच्यते ।।४६।।
उपाधिभेदादेकाऽपि
प्राच्यादिव्यपदेशभाव्â ।
आत्मेन्द्रियाद्यधिष्ठाता
करणं हि सकर्तृकम् ।।४७।।
शरीरस्य
न चैतन्यं मृतेषु व्यभिचारत: ।
तथात्वं
चेदिन्द्रियाणामुपघातके कथं स्मृति: ? ।।४८।।
मनोऽपि
न तथा,
ज्ञानाद्यनध्यक्षं तदा भवेत् ।
धर्माधर्माश्रयोऽध्यक्षो
विशेषगुणयोगत: ।।४९।।
प्रवृत्त्याद्यनुमेयाऽयं
रथगत्येव सारथि: ।
अहज्ररस्याऽऽश्रयोऽयं
मनोमात्रस्य गोचर: ।।५०।।
विभुर्बुद्ध्यादिगुणवान्
बुद्धिस्तु द्विविधा मता ।।
अनुभूति:
स्मृतिश्च स्यात् अनुभूतिश्चर्तुिवधा ।।५१।।
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे
।
घ्राणजादिप्रभेदेन
प्रत्यक्षं षड्विधं मतम् ।।५२।।
घ्राणस्य
गोचरो गन्धो गन्धत्वादिरपि स्मृत: ।
तथा
रसो रसज्ञाया: तथा शब्दोऽपि च श्रुते: ।।५३।।
उद्भूतरूपं
नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये ।
विभागसंयोगपरापरत्वस्नेहद्रवत्वं
परिमाणयुक्तम् ।।५४।।
क्रियां
जातिं योग्यवृत्तिं समवायं च तादृशम् ।
गृþाति चक्षु:सम्बन्धादालोकोद्भूतरूपयो: ।।५५।।
उद्भूतस्पर्शवत्
द्रव्यं गोचर: सोऽपि च त्वच: ।
रूपान्यच्चक्षुषो
योग्यं रूपमत्राऽपि कारणम् ।।५३।।
द्रव्याध्यक्षे
त्वचो योगो मनसा ज्ञानकारणम् ।
मनोग्राह्यं
सुखं दु:खमिच्छा द्वेषो मति: कृति: ।।५७।।
ज्ञानं
यन्र्नििवकल्पाख्यं तदतीन्द्रियमिष्यते ।
महत्त्वं
षड्विधे हेतु:, इन्द्रियं करणं मतम् ।।५८।।
विषयेन्द्रियसम्बन्धो
व्यापार: सोऽपि षड्विध: ।
द्रव्यग्रहस्तु
संयोगात् संयुक्तसमवायत: ।।५९।।
द्रव्येषु
समवेतानां तथा तत्समवायत: ।
तत्राऽपि
समवेतानां शब्दस्य समवायत: ।।६०।।
तद्वृत्तीनां
समवेतसमवायेन तु ग्रह: ।
प्रत्यक्षं
समवायस्य विशेषणतया भवेत् ।।६१।।
विशेषणतया
तद्वदभावानां ग्रहो भवेत् ।
अलौकिकस्तु
व्यापारस्त्रिविध: परिर्कीितत: ।
सामान्यलक्षणो
ज्ञानलक्षणो योगजस्तथा ।।६३।।
आसत्तिराश्रयाणां
तु सामान्यज्ञानमिष्यते ।
तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते
।।६४।।
विषयी
यस्य तस्यैव व्यापारौ ज्ञानलक्षण: ।
योगजो
द्विविध: प्रोक्तो युक्तयुञ्जानभेदत: ।।६५।।
युक्तस्य
सर्वदा भानं, चिन्तासहकृतोऽपर: ।