logo

वैशेषिकसूत्रप्रस्थानपरम्परा (वैशेषिकदर्शम्)

अथातो धर्मं व्याख्यास्याम: | वै. सू. १.१.१.

ऊर्ध्वबद्धजटाजूटक्रोडक्रीडत्सुरापगम्।

नमामि यामिनीकान्तकान्तभालस्थलं हरम्॥१॥

याभ्यां वैशेषिके तत्रे सम्यग्व्युत्पादितोऽस्म्यहम्।

कणाद्भवनाथाभ्यां ताभ्यां मम नमः सदा॥२॥

सूत्रमात्रावलम्बेन निरालम्बेऽपि गच्छतः।

खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यते॥३॥

      तापत्नयपराहता विवेकिनस्तापत्रयनिवृत्तिनिदानमनुसंधाना नानातिश्रु-स्मृतीतिहासपुराणेष्वात्म-तत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवुः। तत्‍प्राप्तिहेतुमपि पन्थानं जिज्ञासमानाः परमकारुणिकं कणादं मुनिगुपसेदुरथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्यसंपन्नः षण्णा पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्वसाक्षात्कारप्राप्तये परमः पन्था इति मनसि कृत्वा तच्च निवृत्तिलक्षणाद्धर्मादेतेषामनायासेन सेत्स्यतीति लक्षणतः स्वरूपतश्च धर्मेमेव प्रथममुपदिशाम्यनन्तरं षडपि पदार्थानुद्देशलक्षणपरीक्षाभिरुपदेयामीति हृदि निधाय तेषामवधानाय प्रतिजानीते-अथात इति। अथेति शिष्याकाङ्क्षानन्तर्यमाह। अत इति। यतः श्रवणादिपटवोऽनसूयका आन्तेवासिन उपसेदुरित्यर्थः। यद्वा अथशब्दो मङ्गलार्थः। तदुत्तम्-'ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ॥इति। युक्तं चैतत्। कथमन्यथा सदाचारपरंपरापरिप्राप्तकर्तव्यताकस्य मङ्गलस्य वैशेषिकशास्त्रं प्रणयतो महामुनेरनाचरणं संभाच्यते। नच कृतमङ्गलस्यापि फलादर्शनादकृतमङ्गलस्यापि फलदर्शनाद्ननुष्ठानम्। नहि निष्फले प्रेक्षावान् प्रवर्तत इति वाच्यम्। अकरणस्थले जन्मान्तरीयस्य करणस्थले चावैगुण्यस्य कल्पनया सफलत्वनिश्चयात्। नहि शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकस्यापाततः फलादर्शनमात्रेणाकारणत्वशङ्कापि। न चैहिकमात्रफलकत्वान्न जन्मान्तरीयानुमानं पुत्रेविदेहिकमावफलकत्वानुपपत्तेः। कारीर्यादौ तु तथाकामनयैवानुष्ठानादैहिकमात्रफलकत्वम्। अत्र च समाप्तिकामोऽधिकारी स्वर्गकाम इव यागे। तत्रापूर्व द्वारमिह तु विघ्नध्वंस इति विशेषः। निर्विघ्नमारब्धं समाप्यतामिति कामनया प्रवृत्तेः। नच विनध्वंसमात्रं फलंसमाप्तिस्तु स्वकारणादेवेति वाच्यम्। तस्य स्वतोऽपुरुषार्थत्वात्समाप्तेस्तु सुखसाधनतया पुरुषार्थत्वादुपस्थितत्वाञ्च। किंच दुरितध्वंसमात्रं न फलं तस्य प्रायश्चित्तकीर्तनकर्मनाशापारगमनादिसाव्यतया व्यभिचारात्। प्रारब्धपरिसमाप्तिप्रतिबन्धकदुरितध्वंसत्वेन फलत्वे समाप्तेरेव फळत्वोचितत्वात्। तत्रापि च हिरण्यदानप्रयागस्नानादिजन्यत्वेन व्यभिचारात्। तेषामपि मङ्गलत्वाभिधानं साहसम्। किंच मङ्गले सति समाप्तेरावश्यकत्वमित्येवं मङ्गलस्य कारणता। तदुक्तम् 'श्रौतात्साङ्गात्कर्मणः फलावश्यंभावनियमात्इति। अत एव विकल्पितमपि कारणं कारणमेव फलानन्तर्यनियमस्यैव वैदिककारणत्वात्। विकल्पे तु वैजात्यकल्पनं वैजात्यमेव। यत्रान्वयव्यतिरेकगम्या कारणता तत्र फलपूर्वभावनियमो ग्राह्यो न तु वेदेऽपि। तत्र व्यतिरेकभानस्य गुरुत्वेनानुपस्थितेः। तथा च साङ्गे मङ्गले समाप्तिरावश्यकीति न व्यभिचारः। समाप्तिस्तु यस्मिन्ननुष्ठिते संपूर्णमिदं कर्मेति प्रमा। सा च ग्रन्थादौ चरमवाक्यलिखनेयामादौ चरमाहुतौपटादावन्त्यतन्तुसंयोगेग्रामगमनादौ ग्रामचरणचरमसंयोगे। एवं तत्र तत्रोहनीयमिति। मङ्गलजन्यसमाप्तौ वैजात्यकल्पनेऽपि नोभयथा व्यभिचारः। मङ्गलं च विघ्नध्वंसद्वारकसमाप्तिफलकं कर्म। तच्च देवतानमस्कारादिरूपमेव। स्वतःसिद्धविघ्नाभावस्थलेऽपि सामान्यतो गृहीतस्य विघ्नध्वंसद्वारकत्वस्यानपायात्। नमस्कारादीनां तादूप्येणैव विघ्नध्वंसद्वारकत्वप्रतिपत्तेव्याप्तिरिति दिक्॥१॥

उत्पत्तिस्थितिसंहृतीर्वितनुते विश्वस्य यः स्वेच्छया

तद्विष्टभ्य परिस्फुरन्नपि न यः प्राज्ञेतरैर्ज्ञायते।

यत्तत्त्वं विदुषां न संसृतिसरित्पूरे पुनर्मज्जनं

सोऽयं वः स्थिरभक्तियोगसुलभो भूयाद्भवो भूतये॥१॥

मेघाङ्गीमपि संभृतांशुनिकरैर्ध्वान्तौघविध्वंसिनी

भक्तानां भवभेदिनीमपि भवप्रेम्णा सदानन्दिनम्।

माहेश कुलकामिनीमपि दिशो वासो वसानां शनै

मन्त्रीमप्यगजां शिवामपि शवासीनां भवानीं भजे॥२॥

प्रणम्य श्रीगुरुञ्छीमा जयनारायणो द्विजः।

कणादसूतविवृतिं तनोतीश्वरंतुष्टये॥३॥

इह खलु जन्मजरामरणादिजनिततापकलापं जिहासवः सर्व एवान्तेवासिनस्तद्धाननिदानमात्मतत्त्वदर्शनमाकर्णयन्ति श्रुतिस्मृतीतिहासपुराणादिषु। तथा हि- श्रुतिः, 'आत्मा' वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितव्यश्चैतावदरे खलमृतत्वम्' इति।' यदात्मानं विजानीयादहमस्मीति पूरुषः। किमिच्छन् कस्य कामाय संसारमनुसंसरेत्। इत्यादि। स्मृतिश्च, 'आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्'॥ इति। अथ केचिदन्तेवासिनो विधिवदधीतवेदवेदाङ्गा अनसूयकाः संपन्नश्रवणा मननार्थ भगवन्तं कणा- दमहर्षि विधिवदुपसेदु:-) ततः परमकारुणिकः स मुनिर्दशाभ्यायीतन्त्रं तानुपदिदेश। तल प्रथमाध्याये समवेताशेषपदार्थकथनम्। द्वितीयाध्याये द्रव्यनिरूपणम्। तृतीयाध्याये आत्मान्तःकरणलक्षणम्। चतुर्थाध्याये शरीरतदुपयोगिविवेचनम्। पञ्चमाध्याये कर्मप्रतिपादनम्। षष्ठाध्याये श्रौतधर्मविवेचनम्। सप्तमाध्याये गुणसमवाययोः प्रतिपादनम्। अष्टमाध्याये ज्ञानोत्पत्तितन्निदानादिनिरूपणम्। नवमाध्याये बुद्धिविशेषप्रतिपादनम्। दशमाध्याये आत्मगुणभेदप्रतिपादनम् उद्देशी लक्षणं परीक्षा चेति त्रिविधाऽस्य शास्त्रस्य प्रवृत्तिः। विभागस्तु, विशेषोद्देश एवेति नाधिक्यम्। यद्यप्यत्र तत्रे पदार्थनिरूपणस्यैव प्राचुर्य तथापि पदार्थतत्त्वज्ञाननिदानतया धर्मस्यैव प्राधान्यात्तन्निरूपणमेव प्रथमं प्रतिजानीते अथात इति। अथशब्दस्यानन्तर्यमर्थः शिष्यजिज्ञासानन्तरमित्यर्थः। यतः श्रवणादिपटवोऽनसूयकाश्चान्तेवासिन उपसन्नाः। अतः कारणाज्ज्ञाननिदानं धर्म व्याख्यास्यामो निरूपयिष्याम इत्यर्थः। केचित्तु अथशब्दो मङ्गलार्थः। 'ओङ्कारश्याथशब्दश्र द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्याती तेन माङ्गलिकावुभौ॥' इति स्मरणात्। एतेन शास्त्रं प्रणयता महर्षिणा शिष्टाचारपरंपरापरिप्राप्ताभिमतकर्मारम्भसमयकर्तव्यताकं मङ्गलाचरणं कथं न कृतमित्याक्षेपोऽपि निररत इत्याहुः। अन्ये तु योगजधर्मेण विघ्नाभावनिश्चयान्मुनिना मङ्गलाचरणं न कृतं, कृतं वा किंतु ग्रन्थादौ तन्न निबद्धमित्याहुः। नव्यास्तु गौतमीये भगवन्नामगणान्तः पातिप्रमाणशब्दोच्चारणवदत्र शास्त्रे तथाविधधर्मशब्दोच्चारणरूपमेव मङ्गलमित्याहुः। अत्र धर्मस्य ज्ञानोपयोगिता चित्तशुद्धिविविदिषादिद्वारिकैव 'विविदिषन्ति यज्ञेन' इत्यादिश्रुतेः। 'कषाये कर्मभिः पक्के ततो ज्ञानं प्रजायते' इत्यादि स्मृतेश्चेति मन्तव्यम्॥१॥

सवें वै प्राणभृतां व्यवहाराः प्रयोजनाश्रयाः। नान्तरेण प्रयोजनं प्रवृत्तिनिवृत्ती  पश्चादयोऽप्यभिसंधाय प्रयोजनं प्रवर्तन्ते निवर्तन्तं च। विवेकिनस्तु प्राणभृद्भेदानधिकृत्य शास्त्रप्रवृत्तिः। यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्। अपरिसंख्येयश्चार्थः। कस्मात्? प्राणभृद्भेदस्यापरिसंख्यानात्। संक्षेपतरतु चतुर्विधं सुखं दुःखनिवृत्तिस्तदधिगमोपायश्चेति। तत्र प्रथमयोः प्रधानः प्रयोजनशब्दः परयोर्गौणः। शास्त्रेणाधिकुर्वतां तु प्राणभृद्भेदानां पुनश्चतुर्धा भिद्यते धर्मोऽर्थः कामोऽपवर्गश्चेति। ते इमे पुरुषार्था इत्याचक्षते। तत्रापवर्गः परमः पुरुषार्थः। कस्मात्? अपुनरावृत्तिश्रुतेः। क्रियाकारकोपरमाच्च। अपवर्ग खल्वधिगतः पुरुषो न पुनरावर्तते संसारवत्मसु। क्रियाकारकव्यवहारश्च सर्वोऽप्यपवर्गमधिगतस्योपरमति, तदवसानोऽयं व्यवहारकलाप इति। अर्थः कामश्चाश्रेयानपि समनन्तरफलभावादभीप्सितो भवति, प्रणाल्या चान्यत्रोपयुज्यते। सर्व एवैते पुरुषार्थाः साक्षात्परंपरया वा धर्मादेवाभिनिष्पद्यन्ते। धर्ममन्तरेण नार्थकाममोक्षाणामधिगमः। धर्ममनुतिष्ठन् खल्वयमर्थ कामं चाधिगच्छति। अपवर्गोऽपि परमं प्रयोजनं निवृत्तिलक्षणाद्धर्मादशुद्धथुपरमे मनसः प्रसत्तौ सत्यां तत्त्वज्ञानान्निष्पद्यमानः प्रणाल्या धर्मेसाधन एव। तस्मादस्मिंस्तत्त्वज्ञानार्थे शास्त्रे, अथातो धर्मे व्याख्यास्यामः। तत्र लोके येष्वर्येषु यानि प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्वपि मन्तव्यानि। न त्वघ्याहारादिभिरेषामर्थः परिकल्पनीयः परिभाषितव्यो वा। कस्मात्? अभिप्रायभेदाएत्तेः। एवं खल्वन्योऽभिप्रायस्तन्त्रकर्तुरभिप्रायात्प्रवक्तुरापद्येत। तच्चानिष्टम्। प्रतिकूलवेदनीयेन दुःखजालेनानिशमुपतप्यमाना विवेकिनस्तजिहासवस्तत्त्वज्ञानमर्थयमानास्तदर्थमुपासदन्नन्तेवासिनः, अथेदानीं धर्मे व्याख्यास्यामः। कस्मात्? तत्साधनभावादिति पदानां सामर्थ्यम्। धर्मात्खल्वयं पुरुषो विशुद्धसत्त्वस्तत्त्वज्ञानायोपकल्पते। तत्त्वं च जानन्निःश्रेयसमधिगच्छति। यथोक्तम्-'धर्मविशेषप्रसूतात् तत्त्वज्ञानान्निःश्रेयसम् इति। तन्त्रान्तरसमाचाराच्च। तन्त्रान्तरे चायमर्थोऽनुशिष्यते। नचैतदिह प्रतिषिद्धम्। अप्रतिषिद्धं च परमतमनुमतं भवति। विशेषाभिधित्सया तु शास्त्रारम्भः। यदि वैशेषिकं नाम शास्त्रमारब्धं तत्खलु तन्त्रान्तराद्विशेषस्यार्थस्याभिधानायेति॥१॥

×