logo

तर्कसंग्रह: (नव्यन्यायदर्शनम्)

मंगलाचरणम्

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।

बालानां सुखबोधाय क्रियते तर्कसङ्ग्रह:।।

विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।

टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम्।।

            चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक- मिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबन्धनश्चिकीर्षितं प्रतिजानीते- निधायेति। ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति, मङ्गले कृतेऽपि किरणावल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्यादौ समाप्तिदर्शनाच्चान्वयव्यतिरेकाभ्यां व्यभिचारादिति चेन्न, किरणावल्यादौ विघ्नबाहुल्यात्समाप्तयभाव:। कादम्बर्यादौ तु ग्रन्थाद्वहिरेव मङ्गलं कृतमतो न व्यभिचार:।

            ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणामिति चेन्न:, शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात्। तथा हि-मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाऽविगीतशिष्टाचारविषयत्वात् दर्शादिवत्। भोजनादौ व्यभिचारवारणायाऽलौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति। शिष्टपदं स्पष्टार्थम्। ‘न कुर्यान्निष्फलं कर्म’, इति जलताड़नादेरपि निषिद्धत्वादिति। तक्र्यन्ते प्रतिपाद्यन्ते इति तर्का: द्रव्यादिपदार्थास्तेषां संग्रह: संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थ:। कस्मै प्रयोजनायेत्यत आह- सुखबोधायेति। सुखेन अनायासेन यो बोध: पदार्थज्ञानं तस्मा इत्यर्थ:। ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थ: क्रियत इत्यत आह- बालानामिति। तेषामतिविस्तृत-त्वाद्वालानां बोधो न जायत इत्यर्थ:। ग्रहणधारणपटुर्बाल:, न तु स्तनन्धय:। किं कृत्वा क्रियत इत्यत आह- निधायेति। ‘विश्वेशं’ जगन्नियन्तारम्। हृदि ‘निधाय’ नितरां स्थापायित्वा सदा तद्ध्यानपरो भूत्वोत्यर्थ:। गुरूणां विद्यागुरूणां वन्दनं नमस्कारं, विधाय कृत्वेत्यर्थ:।

निखिलागमसञ्चारि श्रीकृष्णाख्यं परं मह:।

ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्।।

            चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकम् मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति- निधायेति।

यं वेदा: सततं स्तुवन्ति नितरां ध्यायन्ति यं योगिनो

य: सृष्टा्यादिनिदानमुष्णकिरणेन्द्वग्नीक्षणो य: पुमान्।

तस्मिन्शैलसुताकृताद्र्धवपुषि प्रज्ञात्मके शाश्वते

मच्चित्तं रमतां सदा भयहरे श्रीमत्परब्रह्मणि।।१।।

चिन्नामान्वयसागरे हिमरुचेर्विद्वन्मणे: श्रीगुरो:

काशीनाथशुभाभिधानलसत: कारुण्यबोधांबुधे:

स्वान्त: स्वान्तगतान्धकारतरणि श्रीपादपज्र्ेरुह-

द्वन्द्वं सज्र्लयामि हृद्यममलं प्रत्यक्षदैवं शुभम्।।२।।

ज्ञात्वा तन्त्रमनेकम् श्रीकृष्णधूर्जटिदीक्षित:।

तर्कसंग्रहगूढार्था विवृणोमि यथामति।।३।।

श्रीमद्विक्रमपट्टनाधिपमहाराजाधिराजायित

प्राज्ञश्रीगजसिंहभूपतनयश्रीराजसिंहप्रभो:।

सुज्ञानाय विनिर्मितोऽतिसुगम: सिद्धान्तचन्द्रोदयो

रम्य: साधु तनोतु पण्डितमनोहर्षं तरङ्गायितम्।।४।।

            ग्रन्थादौ निर्विघ्नपरिसमाप्त्यर्थमन्नम्भट्टोपाध्याय: शिष्टाचारानुमितश्रुतिबोधिकर्तव्यताकम् नमस्कारात्मकम् मङ्गलमारन् श्रोतृप्रवृत्तयेऽनुबन्धचतुष्टयं च प्रदर्शयन् शिष्याणामवधानाय चिकीर्षितग्रन्थप्रतिज्ञां च कुर्वन् शिष्याणां मङ्गलप्रवृत्तये आस्तिकमार्गप्रवृत्तये वा तन्निबध्नाति निधायेत्यादिना। तक्र्यन्ते प्रमितिविषयीक्रियन्त इति तर्का:, द्रव्यादिपदार्थास्तेषां संग्रह: संक्षेपेणोद्देशलक्षणपरीक्षा यस्मिन् स क्रियत इत्यर्थ:। नाममात्रेण वस्तुसंकीत्र्तनमुद्देश:, यथा द्रव्यगुण इति। असाधारणधर्मो लक्षणं, यथा गन्धवत्वं प्रथिव्या:। लक्षितस्य लक्षणं संभवति न वेति विचार: परीक्षा। नन्वेतद्ग्रन्थप्ररचनावलम्बनं कीदृशप्रयोजनायेत्यत आह सुखबोधायेति। सुखेनानायासेन बोधाय पदार्थतत्त्वज्ञानायेत्यर्थ:। तथा च त्रिविधा चास्य शास्त्र प्रवृत्तिरुद्देशो लक्षणं परीक्षा चेति भाष्यसंगत्यात्रोद्देशादिकृतत्वात्पदार्थतत्त्वज्ञानं भवत्येवेति भाव:। अत्रोद्देशस्य पक्षज्ञानं प्रयोजनम्। लक्षणस्य इतरभेदज्ञानमिति वक्ष्यते। परीक्षाया: लक्षणे दोषपरिहार इति मन्यव्यम्।

            ननु कुसुमाञ्जलिलीलावत्यादिग्रन्थाध्ययनेनापि पदार्थतत्त्वज्ञानसंभवे किमभिनवग्रन्था-वलम्बनेनेत्यत आह बालानामिति। तथा च तेषामतिदुर्बोधत्वात् तत्र बालानां बोधो न भवतीति भाव:। अत्राधीतव्याकरणकाव्यकोषोऽनधीतन्यायशास्त्रो बाल:। ननु ‘‘आशीर्वादनमस्कार वस्तुनिर्देशभेदत: मङ्गलं त्रिविधं प्रोत्तंâ शास्त्रादीनां मुखादिषु’’ इति महदुत्तेâ: मङ्गलस्य ग्रन्थादावावश्यकतया तदत्राकृत्वा कथं ग्रन्थ: क्रियत इत्यत आह-

निधाय हृदि विश्वेशं विधा गुरुवन्दनम्।

बालानां सुखबोधाय क्रियते तर्कसंग्रह:।।

निधायेति। विश्वेशं जगत्कत्र्तारं श्रीसाम्बमूर्ति हृदि मनसि निधाय नितरां ध्यात्वा गुरुवन्दनं च विधायेत्यर्थ:। नचेश्वरमङ्गलेनैव सामञ्जस्ये गुरुवन्दनमयुक्तमिति वाच्यम्। ‘शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन। गुरुरेव परं ब्रह्म’ इत्यादिवचनात्। गुरोरेवौत्कृष्ट्यप्रतिपादनेन तस्यैवावश्यकत्वात्। ईश्वरमङ्गलं तु समाप्तौ दृढ़तरसामग्रीसम्पादनाय निरीश्वरवादिमनिराकरणाय वेति ध्येयम्। यत्रेश्वरमङ्गलमेवास्ति तत्र तस्यैव प्राधान्यं दिवाकरदीक्षितेरभावे दीपदीधितेश्चाक्षुषोत्पादकत्ववदिति विवेक:। इति श्लोकव्याख्या।

            अथ मङ्गलं न समाप्तिं प्रति कारणं कादम्बय्र्यादौ मङ्गलसत्त्वेऽपि समाप्तयनुदयात्। नास्तिकग्रन्थे मङ्गलाभावेऽपि समाप्त्युदयादन्वयव्यतिरेकव्यभिचारादिति चेत्? , यत्सत्त्वे स्वेतरयावत्कारणसत्त्वे यत्सत्त्वमित्यस्यैवान्वयत्वेन कादम्बय्र्यादौ मङ्गलसत्त्वेऽपि कारणान्तरस्या-सत्त्वकल्पनेनान्वयव्यभिचाराभावात्। नास्तिकग्रन्थे तु काय्र्यात्कारणमनुमेयमिति न्यायेन ‘अयं नास्तिक: कृतमङ्गलक: विघ्नध्वसंपूर्वकपरिसमाप्तिमत्त्वात् चैत्रवद्’ इत्यनुमानाज्जन्मान्तरीय-मङ्गलसिद्धौ व्यतिरेकव्यभिचाराभावाच्च। ननु मङ्गलस्य श्रुतिबोधितकत्र्तव्यताकत्वे किं मानमिति चेत्, ‘मङ्गलं श्रुतिबोधितकत्र्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवद्’ इत्युन-मानमेव। लौकिकव्यवहारवारणालौकिकेत्याचारविशेषणम्। यद्यप्याचार: क्रिया तथापि विषयत्वसान्निध्यात्कृतिरेव विवक्षिता उन्मत्तकृतरात्रिश्रद्धादौ हेतो: सत्त्वाद्व्यभिचार: अत: शिष्टेति। शिष्टत्वञ्च भक्तिश्रद्धादिभिर्वेदानुमतकर्मकर्तृत्वम्। आस्तिकाभासे व्यभिचारवारणाय भक्तीत्यादि। चैत्यवन्दनप्रवृत्तबौद्धे व्यभिचारवारणाय वेदानुमतेति। भक्तिश्च आराध्यत्वेन ज्ञानम्। श्रद्धा च फलावश्यम्भावनिश्चय इति संक्षेप:।

            नव्यास्तु मङ्गलस्य विघ्नध्वंस एव फलम्। समाप्तिस्तु प्रतिबन्धकाभावघटितकारण-समुदायादेवेत्याहु:। इति मङ्गलवाद:।।

श्रीगणेशं नमस्कृत्य पार्वतीशज्र्रं परम्।

मया चन्द्रजसिंहेन क्रियते पदकृत्यकम्।।१।।

यस्मादिदमहं मन्ये बालानामुपकारकम्।

तस्माद्धितरं वाक्यं वक्तव्यं विदुषा सदा।।२।।

            विश्वेशं जगत्कर्तारं श्रीसाम्बमूर्ति हृदि मनसि निधाय नितरां धारयित्वा गुरुवन्दनं च विधाय कृत्वेत्यर्थ:। बालेति। अत्राधीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रों बाल:। व्यासादा- वतिव्याप्तिवारणायाऽनधीतन्यायेति। स्तनन्धयेऽतिप्रसक्तिवारणायाऽधीतव्याकरणेति। सुखेति। सुखेनानायासेन बोधाय पदार्थतत्त्वज्ञानायेत्यर्थ:। तक्र्यन्ते प्रमितिविषयीक्रियन्त इति तर्का: द्रव्यादि-सप्तपदार्थास्तेषां संग्रह: सङ्क्षेपेणोद्देशलक्षणपरीक्षा यस्मिन् स ग्रन्थ:। नाममात्रेण वस्तुसज्र्ीर्तनमुद्देश:, यथा द्रव्यं गुणा इति। असाधारणधर्मो लक्षणम्, यथा गन्धवत्त्वं पृथिव्या:। लक्षितस्य लक्षणं सम्भवति न वेति विचार: परीक्षा। अत्रोद्देशस्य पक्षज्ञानं फलं, लक्षणस्येतर-भेदज्ञानं, परीक्षाया लक्ष्णे दोषपरिहार इति मन्तव्यम्।।१।।

ग्रन्थारम्भे विघ्नविघाताय समाप्तये च मङ्गलाचरणमिति प्राञ्च। नव्यास्तु विघ्नविघात एव मङ्गलफलं, समाप्तिस्तु बुद्धिप्रतिभादिसामग्रीबलादित्याहु:। स्वान्ते विश्वस्येशितारं नितरां ध्यात्वां, गुरोर्नतिं च कृत्वा, अनधीतन्यायशास्त्राणामधीतकाव्यादीनाम्; अनायासेन बोधाय। तक्र्यन्ते प्रमितिविषयीक्रियन्ते ये ते तेषामर्थात्पदार्थानां सङ्क्षेपेण प्रतिपादनं मयाऽन्नम्भट्टेन क्रियते इत्यर्थ:। बालत्वलक्षणे विशेषणेन विशेष्येण च स्तनन्धयस्य व्यासादेश्च न ग्रहणमिति सूचितम्। प्राय: सर्वत्र मङ्गलस्याद्येनार्धभागेन विघ्नध्वंसप्रतिपादनम्, अपरेण विषयप्रयोजनसम्बन्धाधिकारि-निरूपणं क्रियते इति सम्प्रदायसिद्धत्वाद्ब्लानामित्यनेन निरुक्तलक्षणस्य बालस्याधिकारित्वं, सुखबोधायेत्यनेनानायासतो न्यायपदार्थतत्त्वज्ञानरूपं प्रयोजनं, पदार्थतत्त्वज्ञानग्रन्थयो: प्रतिपाद्यप्रति-पादकत्वरूपसम्बन्धकथनं, पदार्थतत्त्वस्य विषयत्वं च सूचितम्। ग्रन्थाध्ययनविषयकप्रवृत्तिप्रयोज-कत्वं चानुबन्धत्वम्। निरुक्तानुबन्धज्ञानादिष्टसाधनत्वकृतिसाध्यत्वज्ञानात्प्रवृत्तिरिति संक्षेप:।।१।।

            न्यायशास्त्रेण कार्यत्रयं सम्पाद्यते- पदार्थानां नामकीर्तनम्, असाधारणधर्मबोधनम्, लक्ष्ये लक्षणसमन्वयश्च। द्रव्यं गुण इत्यादिपदार्थनामकीर्तनम्। गन्धवत्त्वं पृथिव्या लक्षणमित्यसाधारणो धर्म:। पृथिव्यां गन्धसत्त्वाद्गन्धवत्त्वलक्षणस्य लक्ष्यभूतायां पृथिव्यां समन्वय:। एतदेवोद्देशलक्षण-परीक्षापदेन नैयायिकवृद्धैरुद्भुष्यते। असाधारणधर्मश्चाव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रितयरहित एव कार्यक्षम:। व्याप्तिर्नाम लक्ष्यमात्रे लक्षणसत्त्वं तदभावोऽव्याप्ति: लक्ष्यैकदेशावृत्तित्वमिति यावत्। यथा गौ: कृष्णत्वम्। तद्धि लक्ष्यभूतकपिलादिगोव्यक्त्यसंग्राहकत्वादव्यापकम्। व्याप्तिमतिक्रान्तोऽतिव्याप्ति:, लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्। यथा गो: शृङ्गित्वम्। तद्धि गोवृत्त्यगोवृत्त्यपीति भवत्यतिव्यापकम्। लक्ष्यमात्रावृत्तित्वासम्भव:। यथा गो: शुण्डादण्डवत्त्वम्। तद्धि कालत्रयेऽपि गोमात्रेऽसम्भवीति संदर्भशुद्धि:।

श्रीलक्ष्मणार्याय नम:।। ऊँ नमो विघ्ननिवर्तकाय।।

नत्वा श्रीमद्धयग्रीवं सर्वविद्याधिदैवतम्।

कुर्वे बालप्रबोधार्थं न्यायर्थलघुबोधिनीम् ।।१।।

            चिकीर्षितस्य ग्रन्थस्य निर्विघ्नसमाप्तिप्रयोजनं शिष्टाचरितं मङ्गलं शिष्यशिक्षार्थं ग्रन्थतो निबध्नन् शिष्यावधानायर्थं चिकीर्षितं प्रतिजानीते- निधायेति। विश्वेशं जगन्नियन्तारं जगद्रक्षकमिति यावत्। इदं सृष्टिसंहारयोरप्युपलक्षणं निधाय ध्यात्वा गुरुवन्दनम् विद्यागुरुवन्दनम्- तर्कसंग्रह: तक्र्यन्ते प्रतिपाद्यन्ते इति तर्का: द्रव्यादिपदार्था: तेषां संग्रह: स्वरूपकथनं क्रियते इत्यन्वय:। ननु ‘‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’’ इति न्यायादेतद्ग्रन्थविषयकप्रवृत्तिरसंगतेत्यत आह-सुखबोधाय इति। सुखेनानायासेन बोधायेत्यर्थ:। अनेन स्वीयग्रन्थजन्यज्ञानस्य किरणावल्यादि-बह्वायाससाध्यप्राचीननिबन्धाभ्यासजन्यज्ञानाद्व्यावृत्तिरुक्ता। ननु बुद्धिकुशलानां प्राचीनग्रन्थाभ्यासे को वा प्रयास: अत आह- बालानामिति। द्रव्यादिपदार्थानभिज्ञानामित्यर्थ:। अतिसूक्ष्मयुक्तिकेषु तेषु तेषां प्रवेशो न स्यादिति भाव:। अत्र बालशब्देन ग्रहणधारणापटव उच्यन्ते न तु स्तनन्धया:, तेषामनेनापि ग्रन्थेन बोधासंभवात्। केचित्त- सुखबोधायेति। सुखाय बोधायेत्यर्थ: सुखशब्देन दु:खध्वंस उच्यते, स च मोक्ष: षडिन्द्रियाणि षड्विषया: षड्बुद्धय: शरीरं दु:खं चेत्येक-विंशतिदु:खध्वंसो मोक्ष इति हि सिद्धान्त:। एवमस्य ग्रन्थस्य मोक्षजनकज्ञानपरत्वे संभवति अन्यार्थकल्पनमसंगतमित्याहु:।।

प्रणम्य दक्षिणामूर्तिमक्षीणगुणलक्षणम्।

तर्कसङग्रहवाक्यार्थनिरुक्ति: क्रियते मया।।

            इह खलु प्रारिप्सितप्रकरणपरिसमाप्तिप्रत्यर्थिप्रत्यूहव्यूहविध्वंसनाय ग्रन्थारम्भे मङ्गल-मनुतिष्ठन्ति शिष्टा:। प्रतिपित्सूनां प्रतिपत्तये द्रव्यादिपदार्थान् प्रतिपिपादयिषुरन्नम्भट्ट: स्वानुष्ठितं मङ्गलमुपनिबध्नाति- निधायेति। ननु शिष्टसंप्रदायादनुष्ठीयतां नाम मङ्गलं तदुपनिबन्धनं तु निरर्थकमिति चेन्न। उपनिबन्धनस्य शिष्यशिक्षार्थतामन्नभट्टो मनुते। तर्कसंग्रहमात्राध्ययनेन बालानां ग्रन्थकरणसामथ्र्यस्य शशविषाणसोदरतया न वयं तदर्थतां मन्महे। किन्तु मङ्गलोपनिबन्धनस्यापि मङ्गलार्थतां प्रतिपद्यामहे। ननु किमर्थमयं ग्रन्थ: क्रियते इत्यत आह- सुखबोधायेति। सुखं दु:खध्वंस: मोक्ष इति यावत्। सुखाय बोध: सुखबोध:। प्रयोजकत्वं चतुथ्र्यर्थ:। तथा च मोक्षप्रयोजकम् ज्ञानमिति फलितम्। तच्च ज्ञानं पदार्थविषयकमेव। तर्कसङ्ग्रह इति संज्ञानबलात्। सम्यक् गृह्यन्ते बोध्यन्ते अनेनेति सङ्गह:। बोधक: ज्ञानजनक:। तर्काणां द्रव्यादिपदार्थानां सङ्गहस्तर्वâसङ्गह: इति तदर्थत्वात्। तथा च मोक्षप्रयोजकीभूतपदार्थविषयकतत्त्वज्ञानसंपादनाय अयं ग्रन्थ: क्रियत इति भाव:। ननु मोक्षे न पदार्थविषयकतत्त्वज्ञानमुपयुज्यते। आत्मविषयक-ज्ञानस्यैव मोक्षोपयोगिताया: श्रुतिसिद्धत्वादिति चेन्न। आत्मा इतरभिन्न: इत्याकारकात्मविषक-तत्त्वज्ञाने द्रव्यादिपदार्थविषयकतत्त्वज्ञानस्यैवोपयोगित्वात्। श्रूयते चायमर्थ: ईशावास्योपनिषदि। ‘स पर्यगाच्छुक्लमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभू: स्वयम्भूर्याथाथ्र्य- तोऽर्थान्व्यदधाच्छाश्वतीभ्यस्समाभ्य:।।’ इति। अयमर्थ:। शुक्लं शुद्धमात्मानं परमात्मानम्। स एव पुमान्। पर्यगात् परिगतवान् भवेत् ज्ञातवान् भवेत्। कीदृशमात्मानं? अकायं शरीरहितम्। अव्रणं दु:खरहितम्, अस्नाविरं स्नायुरहितमकायत्वात्। अस्थाविरमिति पाठे अस्थाविरं स्थविरत्वादिरहितम्। शुद्धं रागद्वेषमोहरहितम्। अपापाविद्धं धर्माधर्मसम्बन्धशून्यम्। अथ वा आत्मानं स्वात्मानं अकायादिरूपम्। स एव पर्यगात् प्राप्तवान् भवेत् मुक्तो भवेदित्यर्थ:। य: पुमान् अर्थान् द्रव्यादिपदार्थान्। व्यदधात् विवेचितवान्। कीदृशस्सन् परिभू: इतरमतान् परिभविष्णु:। वत्तृâत्वादिशून्यस्य परिभवनसामथ्र्यं न संभवतीत्यत आह- कविरिति। कवि: कवयिता कल्पक: वत्तेâति यावत्। ज्ञानरहितस्य वत्तृâता काननकौमुदी इत्यत आह- मनीषिति। मनीषी बुद्धिमान्। अत एव स्वयम्भू: स्वयं भवति प्रभवति समर्थों भवतीति। यथा कथञ्चित्पदार्थविवेचनं न फलाय कल्पते। तदाह-यथाथ्र्यत:। यथार्थत्वेन। सकृत्पदार्थविवेचनं नार्थाय संपद्यते। तदाह-शाश्वतीभ्यस्समाभ्य:। अनेकसम्वत्सरानित्यर्थ:। एवं च मोक्षप्रयोजकीभूतं यत्पदार्थत्त्वज्ञानं तस्मै तर्कसङ्गह: क्रियत इति नानुपपत्ति:। अन्नम्भट्टस्तु सुखेन अनायासेन बोध: सुखबोध इति व्याचष्टे। तच्च किञ्चिदपकर्षमालम्बते। स्वत: परमपुरुषार्थभूतमोक्षं प्रति स्वग्रन्थस्योपयोगिताम-प्रत्याप्य ग्रन्थादौ बालकस्य प्रवर्तयितुमशक्यत्वात्।।

शिवया सहितं नत्वा शिवमम्बां गुरूनपि।

वाक्यवृत्तिं सङ्ग्रहस्य कुरुते बालसिद्धये।।

            ग्रन्थस्य निर्विघ्नपरिसमाप्तये कृतं मङ्गलं शिष्यशिक्षायै निबध्नन् शिष्यप्रवृत्तये प्रयोजना-भिधेयौ च श्लोकेनाह-निधायेति। हृदि मनसि। निधानं स्वविषयकज्ञानजनकत्वसंबन्धेन स्थापनम्। मनसा विश्वेशं ध्यात्वेति भाव:। बालानां ग्रहणपूर्वकधारणयोग्यानां। सुखेन अनायासेन। तर्कसंग्रह इति। तक्र्यन्ते प्रतिपाद्यन्त इति तर्का: द्रव्यादिपदार्था:। तेषां संग्रह: लक्षणस्वरूप-विभागप्रकारकज्ञानानुवूâल: संक्षिप्तो व्यापार:। क्रियत इति। मयेति शेष:। तथा च मत्समवेतकृतिविषयस्तर्वâसंग्रह इति वाक्यार्थ:। अत्राभिधेयत्वरूपपदार्थत्वं पदार्थसामान्यलक्षणं विभागवाक्यघटकीभूतपदार्थशब्दाद्बोध्यम्।।

श्रीगुरुं स्पूâर्तिदातारं नत्वा विघ्ननिवृत्तये।

तर्कसंग्रहटीकां तु विरलां विदधाम्यहम्।।

            निधायेति। स्पष्टोऽर्थ:। ननु सत्सु बहुषु न्यायग्रन्थेषु किमर्थमयमपूर्वो य आरम्भ इत्यत आह- बालेति। बालत्वं पदकृत्ये द्रष्टव्यम्। तथा च तादृशबालानां पूर्वनिर्मितग्रन्थेषु दुर्बोधत्वान्न व्युत्पत्तिरिति अन्नम्भट्टस्यायमायास इति बोध्यम्। कस्मै प्रयोजनायेत्यत आह- सुखेति। क्रियत इति। मयेति शेष:। तथा च मत्समवेतकृतिविषयस्तर्वâसंग्रह इति वाक्यार्थ:।

            अथवा सुखं दु:खध्वंसरूपो मोक्षस्तदर्थं बोधो ज्ञानं तस्मै मोक्षप्रयोजनकतत्त्वज्ञानाय, पदार्थां: सम्यक् गृहन्ते बोध्यन्तेऽनेनेति संग्रह: ज्ञानजनक:, मोक्षप्रयोजकीभूतपदार्थविषयक- तत्त्वज्ञानसम्पादकोऽयं तर्कसंग्रहनामा ग्रन्थ: क्रियत इति। अनया कारिकया शिष्यशिक्षार्थं ग्रन्थादौ मङ्गलकरणं युक्तमिति पूर्वाद्र्धेन प्रदश्र्योत्तराद्र्धे पे्रक्षावत्प्रवृत्त्यङ्गं विषयप्रयोजनाधिकारिसम्बन्ध- रूपमनुबन्धचतुष्टयमपि प्रदर्शितवान् ग्रन्थकार:। तथाहि-तर्कपदेन तर्कविषयद्रव्यादिसप्तपदार्थरूपो विषय:, बोधपदेन पदार्थतत्त्वज्ञानं प्रयोजनम्, बालपदेन तज्ज्ञानलिप्सुरधिकारी, तर्कसंग्रहपदेन द्रव्यादिविषयाणां तर्कसंग्रहग्रन्थस्य च प्रतिपाद्यप्रतिपादकभावरूप: सम्बन्धश्च सूचित:। इत्थं च किमर्थमयमादिम: श्लोक इति प्रश्नस्येदमुत्तरं बोध्यम्।।

×