प्रमाणतोऽर्थप्रतिपत्तौ
प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्।
प्रमाणमन्तरेण
नार्थप्रतिपत्तिः,
नार्थप्रतिपत्तिमन्तरेण
प्रवृत्तिसामर्थ्यम्। प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा।
तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते।
सामर्थ्य
पुनरस्या: फलेनाऽभिसम्बन्धः। समीहमानस्तमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नोति
जहाति वा।
अर्थस्तु सुख
सुखहेतुश्च, दुःखं
दुःखहेतुश्च। सोऽयं प्रमाणार्थोऽपरि सङ्ख्येयः, प्राणभृद्भेदस्यापरिसइयेयत्वात्।
अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति।
कस्मात् ? अन्यतमापायेऽर्थस्यानुपपत्तेः।
तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनाऽर्थं
प्रमिणोति तत्प्रमाणं,
योऽर्थः
प्रमीयते तत् प्रमेयं,
यत्
अर्थविज्ञानं सा प्रमितिः,
चतसृषु
चैवंविधास्वर्थतत्त्वं परिसमाप्यते।
किं
पुनस्तत्त्वम्। सतश्च
सद्भावोऽसतश्चाऽसद्भावः। सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति।
असचाऽसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति।
कथमुत्तरस्य
प्रमाणेनोपलब्धिरिति ?। सत्युपलभ्यमाने
तदनुपलब्धेः। प्रदीपवत्। यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तदिव यन्न गृह्यते, तन्नास्ति, यद्यभविष्यदिदमिव
व्यज्ञास्यत, विज्ञानाभावान्नास्तीति, एवं प्रमाणेन
सति गृह्यमाणे तदिव यन्न गृह्यते,
तन्नास्ति, यद्यभविष्यदिदमिव
व्यज्ञास्यत, विज्ञानाभावान्नास्तीति, तदेवं सतः
प्रकाशकं प्रमाणमसदपि प्रकाशयतीति।
सञ्च खलु
षोडशधा व्यूढमुपदेच्यते। तासां खल्वासां सद्विधानाम्-
प्रमाणप्रमेयसंशय
प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डा-हेत्वाभासच्छल
जातिनिग्रहस्थानानां तत्वज्ञानात्रिः श्रेयसा-धिगमः ।। १ ।।
निर्देशे
यथावचनं विग्रहः। चार्थे द्वन्द्वसमासः। प्रमाणादीनां तत्त्वमिति शैषिकी षष्ठी। तत्त्वस्य
ज्ञानं निःश्रेयसस्याऽधिगम इति कर्मणि षष्ठ्यौ। त एतावन्तो विद्यमानार्थाः
येषामविपरीतज्ञानार्थमिहोपदेशः। सोऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।
आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः।
तञ्चैतदुत्तरसूत्रेणाऽनूद्यत इति।
हेयं तस्य
निर्वर्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य
इत्येतानि चत्वार्यर्थपदानि सम्यग् बुद्ध्वा निःश्रेयसमधिगच्छति।
तत्र
संशयादीनां पृथग्वचनमनर्थकम् –
संशयादयो
यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति ? सत्यमेतत्।
इमास्तु चतस्रो विद्याः पृथकुप्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते। यासां
चतुर्थीयमान्चीक्षिकी न्यायविद्या।
तस्याः
पृथकप्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाऽध्यात्मविद्यामात्रमियं
स्यात्, यथोपनिषदः। तस्मात्
संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते। तत्र नानुपलब्धे न निर्णीतेऽर्थे न्यायः
प्रवर्तते, किं तहिं ? संशयितेऽर्थे।
यथोक्तं- 'विमृश्य
पक्षप्रतिपक्षाभ्यामर्थाव चारणं निर्णयः’ (अ० १ आ० १ सू० ४१ ) इति। विमर्शः - संशयः।
पक्षप्रतिपक्षौ-न्यायप्रवृत्तिः। अर्थावधारणं - निर्णयस्तत्त्वज्ञानमिति। स चायं
किंस्विदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः प्रमेयेऽन्तर्भवन्नेवमर्थ पृथगुच्यते।
अथ प्रयोजनम् – चेन प्रयुक्तः
प्रवर्तते, तत् प्रयोजनम्।
यसर्थमन् जिहासन् वा कर्मारभते। तेनाऽनेन सर्व प्राणिनः सर्वाणि कर्माणि सर्वाच
विद्या व्याप्ताः,
तदाश्रयश्च
न्यायः प्रवर्तते। कः पुनरयं न्यायः ?।
प्रमाणपरीक्षण
न्यायः। प्रत्यक्षागमाश्रितमनुमानं साइन्वीक्षा। प्रत्यक्षागमाभ्यामीक्षितस्याऽन्वीक्षणमन्वीक्षा, तया प्रयतंत
इत्यान्वीक्षिकी न्यायविद्यान्यायशास्त्रम्। यत् पुनरनुमानं
प्रत्यक्षागमविरुद्धं न्यायाभासः स इति।
तत्र वादजल्यौ
सप्रयोजनौ। वितण्डा तु परीक्ष्यते। वितण्डया प्रवर्तमानो वैतण्डिकः। स
प्रयोजनमनुयुक्तो यदि प्रतिपद्यते ?
सोऽस्य पक्षः
सोऽस्य सि द्धान्त इति वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते ? नायं लौकिको न
परीक्षक इत्यापद्यते। अथापि परपक्ष प्रतिषेधज्ञापनं प्रयोजनं ब्रवीति ? एतदपि
तादृगेव-यो ज्ञापयति यो जानाति येन ज्ञाप्यते यच ज्ञाप्यते एतच प्रतिपद्यते यदि ? तदा
वैतण्डिकत्वं जहाति। अथ न प्रतिपद्यते ? परक्षप्रतिषेधज्ञापनं प्रयोजनमित्येतदस्य वाक्यमनर्थकं भवति। वाक्यसमूहश्च
स्थापनाहीनो वितण्डा,
तस्य यद्यभिधेयं
प्रतिपद्यते ? सोऽस्य पक्षः
स्थापनीयो भवति। अथ न प्रतिपद्यते ?
प्रलापमात्रमनर्थंकं
भवति, वितण्डात्वं
निवर्तत इति।
अथ दृष्टान्तः
प्रत्यक्षविषयोऽर्थः - यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते। सच प्रमेयम्। तस्य पृथग्वचनं
च -तदाश्रयावनुमानागमौ–
तस्मिन् सति
स्यातामनुमानागमावसति च न स्याताम्। तदाश्रया च न्यायप्रवृत्तिः। दृष्टान्तविरोधेन
च परपक्षप्रतिषेधो वचनीयो भवति दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति।
नास्तिकश्च दृष्टान्तमभ्युपगच्छन्नास्तिकत्वं जहाति। अनभ्युपगच्छन् किंसाधनः
परमुपालभेतेति। निरुक्तेन च दृष्टान्तेन शक्यमभिधातुं - 'साध्यसाधर्म्यात्
तद्धर्मभावी दृष्टान्त उदाहरणम् ( अ० १ आ० १ सू० ३६ )। तद्विपर्ययाद्वा विपरीतम्' (अ० १ आ० १ सू०
३७ ) इति।
अस्त्ययमित्यनुज्ञायमानोऽर्थः
सिद्धान्तः। स च प्रमेयम्। तस्य पृथग्वचनंसत्सु सिद्धान्तभेदेषु बादजल्पवितण्डाः
प्रवर्तन्ते, नातोऽन्यथेति।
साघनीयार्थस्य
यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्या ऽवयवा उच्यन्ते।
तेषु प्रमाणसमवायः - आगमः प्रतिज्ञा।
हेतुरनुमानम्। उदाहरणं
प्रत्यक्षम्। उपनयनमुपमानम्। सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति। सोऽयं परमो न्याय
इति। एतेन वादजल्पवितण्डाः प्रवर्तन्ते नातोऽन्यथेति। तदाश्रया च तत्त्वव्यवस्था। ते चैतेऽवयवाः
शब्दविशेषाः सन्तः प्रमेयेऽन्तर्भूता एवमर्थ पृथगुच्यन्त इति।
तर्को न
प्रमाणसगृहीतो, न प्रमाणान्तरं, प्रमाणानामनुग्राहकस्तत्त्वज्ञानाय
कल्पते। तस्योदाहरणम् - किमिदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विद् -
कृतकेन ? अथाकस्मिकमिति।
एवमविज्ञातेऽर्थे कारणोपपत्त्या ऊहः प्रवर्तते यदि कृतकेन हेतुना निर्वर्त्यते ? हेतूच्छेदादुपपन्नोऽयं
जन्मोच्छेदः। अथाऽ. कृतकेन हेतुना ?
ततो
हेतूच्छेदस्याऽशक्यत्वादनुपपन्नो जन्मोच्छेदः। अथाऽकस्मिकम्? अतोऽकस्मान्निर्वर्त्यमानं
न पुनर्निर्वत्र्त्स्यतीति निवृत्तिकारणं नोपपद्यते, तेन जन्मानुच्छेद
इति। एतस्मिस्तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणाऽनुगृह्यन्ते, तत्त्वज्ञानविषयस्य
विभागात् तत्त्वज्ञानाय कल्पते तर्क इति। सोऽयमित्थम्भूतस्तर्क: प्रमाणसहितो बादे
साधनायोपालम्भाय चाऽर्थस्य भक्तीत्येवमर्थ पृथगुच्यते प्रमेयान्तर्भूतोऽपीति। निर्णयस्तत्वज्ञानं
प्रमाणानां फलं, तदवसानो वादः। तस्य पालनाथे
जल्पवितण्डे। तावेतौ तर्कनिर्णयौ लोकयात्रां वहत इति। सोऽयं निर्णय:
प्रमेयान्तर्भूत एवमर्थ पृथगुद्दिष्ट इति।
वादः खलु
नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरण निर्णयावसानो वाक्यसमूहः
पृथगुद्दिष्ट उपलक्षणार्थम्। उपलक्षितेन व्यवहारस्तत्त्वज्ञानाय भवतीति। तद्विशेषौ
जल्पवितण्डे तरवाध्यवसायसंरक्षणार्थमित्युक्तम् (अ०४ आ०२ सू०५० )।
निग्रहस्थानेभ्यः
पृथगुद्दिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति। जल्पवितण्डयोस्तु
निग्रहस्थानानीति। छलजातिनिग्रहस्थानानां
पृथगुपदेश उपलक्षणार्थमिति। उपलक्षितानां स्ववाक्ये परिवर्जनं
छलजातिनिग्रहस्थानानां परवाक्ये पर्य्यनुयोगः। जातेश्च परेण प्रयुज्यमानाया: सुलभः
समाधिः, स्वयं च सुकरः
प्रयोग इति।
सेयमान्वीक्षिकी प्रमाणादिभिः
पदार्थोर्विभज्यमाना-
प्रदीपः
सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः
सर्वधर्माणां विद्योद्देशे प्रकीत्तिता ।।
तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यम्।
इह त्वध्या-निःश्रेयसाधिगमोऽपवर्गप्राप्ति त्मविद्यायामात्मादितत्त्वज्ञानं रिति ।।
१ ।।
यदक्षपाद:
प्रवरो मुनीनां
शमाय
शास्त्रं जगतो जागाद ।
कुतार्विâकाज्ञाननिवृत्तिहेतु:
करिष्यते
तस्य मया निबन्ध: ।।
प्रमाणादिपदार्थतत्त्वज्ञानान्नि:श्रेयसाधिगम
इत्येतच्छास्त्रस्यादिसूत्रं तस्याभिसम्बन्धवाक्यं
प्रमाणतोऽर्थप्रतिपत्तावित्येवमादि तस्यानुसन्धानवाक्यं शास्त्रस्य
पुरुषश्रेयोऽभिधायकत्त्वात्। शास्त्रं पुन: प्रमाणादिवाचकपदसमूहो व्यूहविशिष्ट:
पदं पुनर्वर्णसमूह: पदसमूह: सूत्रं सूत्रसमूह: प्रकरणं प्रकरणसमूह आह्निकम्
आह्निकसमूहोऽध्याय: पञ्चाध्यायी शास्त्रम् । तत्पदार्था: प्रमाणादय: तस्य
शास्त्रस्य पदानामर्था: प्रमाणादय: षोडशात्मान: तच्छास्त्रं
पुरुषश्रेयोऽभिधत्ते। प्रत्यक्षानुमानाधिगतवस्तुतत्त्वान्वाख्यानं शास्त्रधर्म:
तस्य विषय: प्रत्यक्षानुमानानधिगतवस्तुतत्त्व
आध्यात्मिकशक्तिसम्पुद्युक्तोन्तेवासी। पुरुष: पुनश्चतुर्धा भिद्यते
प्रतिपन्नोऽप्रतिपन्न: सन्दिग्धो विपर्यस्तश्चेति। तत्र प्रतिपन्न: प्रतिपादयिता।
इतरे सापेक्षा: सन्त: प्रतिपाद्या: ते यदेन्द्रियार्थसन्निकर्षमपेक्षन्ते तदा
प्रत्यक्षेण यदा लिङ्गदर्शनस्मृत्याद्यपेक्षन्ते तदानुमानेन यदा
पुनरुपदेशमपेक्षन्ते तदा शास्त्रं प्रवर्तते। श्रेय: पुन: सुखमहितनिवृत्तिश्च।
तच्छ्रेयो भिद्यमानं द्वेधा व्यवतिष्ठते। दृष्टादृष्टभेदेन। इष्टं
सुखमदृष्टमहितनिवृत्ति:। अहितनिवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च। अनात्यन्तिकी
कण्टकादेर्दु:खसाधनस्य परिहारेण। आत्यन्तिकी पुनरेकाविंशतिप्रभेदभिन्नदु:खहान्या।
एकविंशतिप्रभेदभिन्नं पुनर्दु:ख शरीरं षडिन्द्रियाणि षड्विषया: षड्बुद्धय: सुखं
दु:खं चेति। शरीरं दु:खायतनत्वाद्दु:खम्। इन्द्रियाणि विषया बुद्धयश्च तत्साधनभाव।
तू सुखं दु:खानुषङ्गात्। दु:खं स्वरूपत इति। तस्य
हानिर्धर्माधर्मसाधनपरित्यागेन अनुत्पन्नयोर्धर्माधर्मयोरनुत्पादेन
उत्पन्नयोश्चोपभोगात् प्रक्षयेणेति। पुरुषा रागादिमन्तो वीतरागाश्च। तत्र रागो
विषयाभिषङ्गलक्षण: स एषामस्ति ते रागादिमन्त:। वैराग्यं पुनर्भोगानभिष्वङ्गलक्षणं
तद्येषामस्ति ते वीतरागा:। प्रवृत्तेद्र्वौविध्यं पुरुषभेदानुविधानात्।
तेषां पुरुषाणां प्रवृत्तयस्ता: पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति।
वीतरागप्रवृत्तिरेकधा। तत्र या वीतरागाणां प्रवृत्ति: सा खल्वेकरूपा
अनिष्टप्रतिषेधार्था अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते। न पुनरेषां ×ाâचिदभिष्वङ्गोऽस्ति।
रागादिमत्प्रवृत्तिस्तुद्विरूपा। ये तु रागादिमन्तस्तेषां या: प्रवृत्तयस्ता
द्विविधा भवन्ति। इष्टानिष्टविषयाधिगमप्रतिषेधार्था:। इष्टमाप्स्यामीति सक्त:
प्रवत्र्तते। अनिष्टं हास्यामीति द्वेषान्निवर्तते। रागादिमत्प्रवृत्तेरपि
द्वैविध्यं भवति समर्थासमर्थभेदात् । या खलु रागादिमत्प्रवृत्ति: सा समर्थाऽसमर्था
च भवति। इष्टमाप्स्यामीति प्रवर्तमानो यदा प्राप्नोति तदा समर्था। अनिष्टं
हास्यामीति प्रवर्तमानो यदा जहाति तदा समर्था यदा विपर्ययस्तदाऽसमर्थेति। तत: पुन:
प्रवृत्तिद्वैविध्यं प्रमाणस्यार्थवदनर्थकत्वात् प्रमाणं तावदर्थपरिच्छेदवंâ प्रमाणसामान्यात् प्रमाणप्रतिरूपकप्रपि प्रमाणमित्युपचर्यते। विंâ पुन: प्रमाणसामान्यं प्रमाणाभासस्य सामान्यपरिच्छेदकत्वम् प्रमाणेनापि
सामान्यं परिच्छिद्यते प्रमाणाभासेनापि। सोऽयं प्रमाता यदा प्रमाणेनावधार्य
प्रवर्तते तदास्य प्रवृत्ति: समर्था भवति यदा पुन; प्रमाणभासेनार्थमवधार्य
प्रवर्तते तदाऽसमर्था तस्या: पुनरर्थवत्त्वं
प्रमाणतोऽर्थप्रतिपत्तावित्यादिभाष्यम्। परस्परापेक्षित्वादुभयासिद्धिरिति चेत्। न
अनादित्वात् । यदि प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामथ्र्य यदि वा प्रवृतिसामथ्र्यात्
प्रमाणतोऽर्थप्रतिपत्ति: विंâ पूर्वे विंâ पश्चादिति वाच्यम् । यदि तावत् प्रमाणत: पूर्वमर्थप्रतिपत्ति:
प्रवृत्तिसामथ्र्यमन्तरेण किमिति प्रतिपद्यते। अथ पूर्वे
प्रवृत्तिसामथ्र्यमनवधार्यार्थे किमिति प्रवर्तते तस्मात् प्रवृत्ते:
प्रमाणतोऽर्थप्रतिपत्तेर्वा परापरभावो न कल्प्यत इति। तच्च नैवं कस्मात् अनादित्वात्
अनादिरयं संसार इति पूर्वाभ्यस्तसूत्रे प्रतिपादयिष्याम:। आदिमति च संसारे एष दोष:
विंâ पूर्वं प्रमाणतोऽर्थप्रतिपत्तिराहोस्वित्
प्रवृत्तिमामथ्र्यमिति। प्रमाणप्रवृत्त्योर्वा बलाबलजिज्ञामायामुभयसामथ्र्यप्रतिपादनार्थं
वाक्यं लोक: खलु प्रवर्तमान: प्रमाणेनावधार्य प्रवर्तते स च तथाप्रवर्तमान:
फलमुपलभते। तत्रेदं चिन्त्यते। विंâ प्रमाणतोऽर्थप्रतिपत्ति:
समर्था आहोस्वित् प्रवृत्तिरिति। उभयं समर्थं तन्नान्तरीयकत्वात्। तस्य फलस्य अस्य
चार्थस्योपदर्शनार्थं वाक्यमिति। लोकवृत्तानुवादो वा सर्व: प्रमाता
प्रमाणेनार्थमवधार्य प्रवर्तमान: फलमुपलभते इति लोकवृत्तं तद्वाक्येनानूद्यते।
हेयहानोपायाभिगन्तव्यभेदाच्चत्वार्यर्थपदानीति। हेयं दु:खं तद्धेतुश्च दु:खमुत्तंâ हेतुरविद्यातृष्णे धर्माधर्माविति। हानं तत्त्वज्ञानम् । तत्पुनर्यथार्थावस्थितपदार्थाधिगति:
तच्च प्रमाणम् । उपाय: शास्त्रं तदप्युक्तम् । अधिगन्तव्योऽपवर्ग: स
पुनरात्यन्तिको दु:खाभाव:। एतस्ंिमश्च चतुर्वर्गे प्रमाणस्य
प्राधान्यप्रदर्शनार्थं चेति। कथं पुनरनेन वाक्येन प्रमाणादिचतुर्वर्ग: प्रदश्र्यत
इति। प्रमाणप्रमेयाधिगतय: श्रुतिगम्या: प्रमाता तन्नान्तरीयकत्वात् । न हि
प्रमातारमन्तरेण प्रमाणं सम्भवति तदिदं वाक्यमवयवश उपन्यस्य वण्र्यते। तत्र
प्रमाणत इति तसिर्वचनविभक्तिव्याप्तिप्रदर्शनार्थ:। प्रमाणत इतीयं निमित्तपञ्चमी।
अस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं च। कथं पुन: पञ्चमीव्यतिरेकेण
तसिर्लभ्यते लभ्यत इत्याह। आद्यादावुपसंख्यानादिति। तत् विंâ सिद्धं भवति वचनव्याप्त्या संप्लवो व्यवस्था च। प्रमाणेन प्रमाणाभ्यां
प्रमाणैरिति संप्लवो गम्यते प्रयाणेनैवेति व्यवस्था विभक्तिव्याप्त्या
हेतुकरणभाव:। प्रमाणादर्थाधिगतिर्भवतीति हेतुत्वं प्रमाणेनार्थं साधयतीति
साधकतमत्वात् करणार्थ इति। संप्लवानुपपत्तिर्विशिष्टविषयत्वादिति चेत्। न
अनभ्युपगमात् । स्यान्मतिरेषा विशिष्टविषयाणि प्रमाणानि। विशेषविषयं प्रत्यक्षं
सामान्यविषयमनुमानमिति। एतच्चाधिगन्तव्यं यत् सामान्यं विशेषश्च न च सामान्यविषयं प्रत्यक्षं न जात्वनुमानं विशेषविषयमिति। एतच्च
न अनभ्युपगमात् । न तावत् प्रमाणद्वयं प्रतिपद्यामहे न विषयद्वयं नाप्यसज्र्रम् ।
विंâ कारणम् । प्रमाणानि तावच्चत्वारि विषय:
सामान्यविशेषतद्वद्भेदात् त्रेधा। सज्र्रोप्येकस्य सर्वै:
प्रमाणैरधिगतेरिन्द्रियवदिति। इन्द्रियं खलु अर्थप्रकाशकत्वात् प्रमाणं तस्य
व्यवस्थासज्र्रश्च व्यवस्था गन्धादिषु सज्र्र: पृथिव्यादिषु
द्वीन्द्रियग्राह्यत्वात् । सत्तायां गुणत्वे च सार्वेन्द्रियं ज्ञानमिति।
अधिगतत्वाद् वैयथ्र्यमिति चेत् । न अन्यथा तदधिगते:। स्यान्मतं यदि सज्र्ीर्येरन्
प्रमाणानि नन्वेकेन प्रमाणेनाधिगतेऽर्थे द्वितीयं प्रमाणं व्यर्थमापद्येत। अधिगतं
चार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यात् । न अन्यथाधिगते: न ब्रूमो यथा
प्रत्यक्षेणार्थेऽधिगम्यते तथानुमानादिभिरपीति। अन्यथा
प्रत्यक्षेणेन्द्रियसम्बद्ध:। इन्द्रियासम्बद्धोऽनुमानेन।
सञ्ज्ञासञ्झिसम्बन्धप्रतिपत्तिरुपमानेन। शब्दोल्लेखेनागमेनेति। विषयान्तरे
व्यवस्थादर्शनाच्च । नच सर्वस्मिन्नर्थे संप्लवोऽस्तीति अतो न वैयथ्र्यमिति।
तस्माद्व्यवस्थितमेतत्तसिर्वचनविभक्तिव्याप्तिज्ञापनार्थ इति प्रमाणस्वरूपावधारणं कर्तव्यम्
। विंâ पुन; प्रमाणस्य
प्रमाणत्वं किञ्चोत्तंâ प्रगाणमिति उपलब्धिहेतु:
प्रमाणम् उपलब्धिहेतुत्वं प्रमाणत्वं यदुपलब्धिनिमित्तं तत् प्रमाणमिति।
समानत्वादलख्शणमिति चेत् यद्युपलब्धिहेतु: प्रमाणं ननु प्रमातृप्रमेययोरपि
उपलब्धिहेतुत्वात् प्रमाणत्वं प्रसज्येत विशेषो वा वक्तव्य इत्।ि अयं विशेष:
प्रमाणे प्रमातृप्रमेयथोश्चरितार्थत्वात् प्रमाणे प्रमाता प्रमेयं च चरितार्थम् ।
अचरितार्थं च प्रमाणम् अतस्तदेवोपलब्धिसाधनमिति। अकरणा प्रमाणोत्पत्तिरिति चेत्
यदि प्रमातृप्रमेयाभ्यां प्रमाणं जन्यते अकरणा तर्हि प्रमाणोत्पत्ति: प्राप्नेति।
न इन्द्रियार्थसन्निकर्षस्य करणभावात् नाकरणाप्रयाणोत्पत्ति:
प्रमाणोत्पत्ताविन्द्रियार्थसन्निकर्षयपेक्षमाणाभ्यां प्रमातृप्रमेयाभ्यां
प्रप्राणं जन्यत इति नामकरणप्रमाणोत्पत्तिप्रसङ्ग। यदि तर्हि
प्रमाणोत्पत्ताविन्द्रियार्थसन्निकर्षमपेक्षेते प्रमातृप्रमेये अथ तर्हि
इन्द्रियार्थसन्निकर्षोत्पत्तौ किमपेक्षेते इति तस्मिन्नपीन्द्रियमित्येवमनादि:
कर्तृकरणभाव: यद्यत्पश्चाद्भवति तत्तत्पूर्वभाविनमपेक्षत इत्यनादि: कर्तृकरणभावो
द्रष्टव्य इति। यदि प्रमातृप्रमेयाभ्यां सद्भ्यां प्रमाणं जन्यते तत: प्रमाणमन्तरेण
प्रमातृप्रमेयभावस्यासिद्धत्वात् प्रमातृत्वं प्रमेयत्वं चानुपपन्नमिति। कथ
प्रमाणमिति यथा कारकशब्दोऽयं तथा प्रमाता प्रमेयमिति। न च कारकशब्दा:
क्रियामन्तरेणात्मानं लभन्त इति। न च द्रव्यमात्रं कारवंâ न च क्रियामात्रमिति। कारकशब्दो हि प्रवर्तमान: क्रियासाधने
क्रियाविशेषयुत्तेâ प्रवर्तते। प्रमातृप्रमेयशब्दौ च
कारकशब्दौ तावन्तरेण क्रियां न प्रवर्तयेतामिति। न पाचकादिशब्दवत्
त्रिकालविषयत्वात् न ब्रूम; क्रियासम्बन्धेनैव
कारकशब्दा:। प्रवर्तन्त इति अपि तु त्रिकालविषया एते यदि क्रियासम्बन्धनिमित्ता:
स्युर्न क्रियासम्बन्धमन्तरेण प्रवर्तेरन् क्रियासम्बन्धमन्तरेण तु प्रवर्तन्ते
विंâ पुनर्निमित्तं सामथ्र्यं तच्च त्रिष्वपि
कालेष्वस्तीति। तस्मादुपन्नं प्रमातृप्रमेयाभ्यां प्रमाणं जन्यत इति
तदुपलब्धिसाधनमिति। साधकतमत्वाद्वा न प्रसङ्ग:। न चायं प्रसङ्गोऽस्ति प्रमाता च
प्रमेयं चोपलब्धेर्निमित्त्वात् प्रमाणं प्रसज्यत इति। कस्मात् साधकतमत्वात्
साधकतमं प्रमाणं न तु प्रमातृप्रमेये। क: खलु साधकतमार्थ: साधकतमं प्रमाणमिति
केवलं वाक्यमभिधीयते नार्थ इति। भावाभावयोस्तद्वत्ता न प्रमातरि प्रमेये वाऽसति
प्रमा भवति सति तु भवति न पुन: सति भवत्येव प्रमाणे तु सति भवन्ती भवत्येव
सोऽयमतिशय: साधकतमत्वमुच्यते। यद्वान्वा प्रमिमीते सोऽतिशय: विंâवान् प्रमिमीते प्रमाणवान् प्रमिमीते प्रमाणे सति प्रमिमीते नासतीति
सतोर्वाऽकर्तृत्वं यदभावात् । यस्य चाभावात्
प्रमातृप्रमेये न प्रमां कुरुत: सोतिशय: संयोगवच्चरमभाविता वा यथा वा संयोग:
पश्चाद्भावी द्रव्यशक्तिर्भवति तथा प्रमाणं चरमभाविप्रमातृप्रमेययो:
प्रमाशक्तिर्भवति पश्चाद्भावोऽतिशय: प्रतिपत्तेरानन्तर्यं वा। यद्वा प्रमाणानन्तरं
प्रतिपत्तेर्जन्म स चायमतिशय इति । असाधारणकारणता वा प्रमाता साधारणं कारणं
सर्वप्रतिपत्तीनां प्रमेयमप्यशेष्ज्ञपुरुषसाधारणत्वात् तथाभूतं प्रमाणं
त्वसाधारणकारणत्वात् प्रधानम् । प्राधान्याच्च साधकतमत्वेनाभिधीयत इति ।
प्रमाकारणसंयोगविशेषकत्वं वा यो वा प्रमाकारणं संयोगस्तस्य प्रमाणमनुग्रहे
वर्तमानप्रतिशयशब्दवाच्यम् । अर्थग्रहणं प्रमाणविषयप्रतिपत्तिनिषेधार्थें यतो न
प्रमाणविषया प्रतिपत्ति: पुरुषमितिकर्तव्यतायां प्रयोजयति किन्त्वर्थस्य
तथाभावविषया यदायमर्थस्य तथाभावं प्रतिपद्यते अथ प्रवर्तत इति
उपेक्षणीयविषयप्रतिषेधार्थं वा न ह्युपेक्षणीयविषयप्रतिपत्ति; पुरुषमितिकर्तव्यतायां प्रयोजयति किन्त्वर्थस्य सुखदु: खहेतुभावविषया
यदायमर्थस्य सुखदु:खहेतुभावं प्रतिपद्यते अथ प्रवर्तत इति प्रमाणग्रहणं
गम्यमानत्वादिति चेत्। न प्रमाणविशेषज्ञापनार्थत्वात् । अर्थप्रतिपत्तौ
प्रवृत्तिसामथ्र्यादित्यभिधीयमाने गम्यते एवैतत् प्रमाणत इति न हि काचित्
प्रतिपत्ति: प्रमाणमन्तरेण भवति। तच्च नैवं
प्रमाणविशेषज्ञापनार्थत्वात् अस्त्ययं प्रमाणशब्द: प्रमाणे वर्तमानोऽस्ति च
प्रमाणसामान्यात् प्रमाणाभासे ऽपीति। तथेह प्रमाणेन प्रतिपत्ति: सा
प्रवृत्तिशामथ्र्यं प्रतिपादयति प्रमाणं नेतरदिति। न च प्रमाणग्रहणमन्तरेण पञ्चम्यभिधानं
लभ्यते। तेन च प्रयोजनं अतश्च प्रमाणग्रहणं कृतमिति। अर्थग्रहणेन सुखदु:खहेतुत्वेन
सर्वसङ्ग्रहोर्यमाणत्वात् । सर्व: प्रमाणादिरर्थ सुखदु: खहेतु: सर्वश्चार्यते
अर्यमाणत्वादर्थ इति न व्याघातादविवक्षितत्वाच्च। सर्व: प्रमाणादिरर्थ:
सुखदु:खहेतुरिति ब्रुवता हेयादिभेदाच्चत्वार्यर्थपदानीति व्याहन्येत। न च
प्रमाणादिहानं शक्यं कर्तुं न च प्रमाणादिहानं विवक्षितं तस्मादव्याख्यानमेतत्
किन्तु सुखदु:खत्वेन तद्धेतुत्वेन च यावतां सङ्ग्रहस्ते ऽभिधीयन्ते अधिकारात् न च
संविदो ग्रहणमनधिकारात् अकर्मत्वाच्च न संविद्धेया असुखदु:खत्वात् अतद्धेतुत्वाच्च
नाप्यर्यते फलत्वात् सोऽयं प्रमाणार्थोपरिसंख्येय: इयानयं प्रमाणविषय इति न
परिसंख्यातुं शक्यम् आनन्त्यात् न उभयस्यापि परिसंख्यातत्वात् । एतावानयं
प्रमाणार्थो यत्सुखदु:खेतद्धेतुश्चेति तच्चोभयं परिसंख्यातम् अइतो न
युक्तमानन्त्यात् न परिसंख्यातुं शक्यं
प्राणभृद्धेदस्यचापरिसंख्येयत्वादपरिीसंख्येय: प्रमाणार्थ इत्यसम्बन्धमुक्तमिति।
नार्थशब्दस्य प्रयोजनवाचित्वात् प्रमाणार्थोपरिसंख्येय इति। प्रमाणे
प्रयोजनमपरिसंख्येयमित्ययं वाक्यार्थ: कथं स एवार्थ: केषाञ्चित्सुखहेतुर्भवति
केषाञ्चिद्दु:खहेतुरिति। अर्थवति च समर्थे प्रमाणे अर्थवन्ति समर्थानीति।
अन्यतमत्वार्थ; साधकतमार्थो द्रष्टव्या: प्रकरणात्
प्रकरणं हि चतुर्वर्गे प्रमाणं प्रधानमिति वण्र्यते। यदि पुनर्यथा
श्रुतिवाक्यमर्थवत् स्यात् विंâ प्रमाणसामथ्र्यं
वर्णितं स्यात् तस्माद्यथोत्तंâ न्याय्यमिति।
प्रमाता स्वतन्त्र: विंâ पुन: स्वातन्त्र्यं
कारकफलोपभोत्तृâत्वं यस्मात् कारकाणां फलेनायमभिसम्बद्धते।
तत्समवायो वा यद्वा अशेषकारकनिष्पाद्याया: क्रियाया: पुरुष आश्रयो भवति
तत्प्रयोत्तृâत्वमितराप्तप्रयोज्यता वा। यद्वा
परिदृष्टसामथ्र्यानि कारकचक्राणि प्रयुत्तेâ तैश्च न
प्रयुज्यते। तत्त्वपरिसमाप्तिर्विनियोगयोग्यता उपेक्ष्यता वा याऽसावविसंवादिता
सावधारिवस्यार्थस्य विनियोगयोग्यता सुखसाधनं वा दु:खसाधनं वाऽयमर्थ इति। ज्ञात्वा
विनियोग: समाप्तिस्तत्प्रातिस्तत्वप्रतिषेधश्च। यद्वा न सुखसाधनं न
दु:खसाधनमित्युपेक्षेति विंâ पुनस्तत् सदसती तत् तस्य
भावस्तत्त्वमित्यत्र तद्वाच्यं यस्य भाव इति सदसती तत् प्रमाणविषयत्वेनाधिकारात्
सदसती प्रमाणविषयावित्यधिकृतम् तस्मात् सदसती तदिति तद्भाव: सदसत्त्वं सदसतो:
प्रमाणविषयता तत्प्रतिषेधश्च तयो: खलु सदसतोर्भावो द्विरूप: बिधीयमान: प्रतिषिध्यमानश्च
यदेकत्र विधीयते तदन्यत्र प्रतिषिध्यते तद्यथा गन्धवती पृथिवी अगन्धा आप इति
प्रमाणविषयत्वात् सदसद्भावाविशेषप्रसङ्ग इति चेत्। न
अनैकान्तात् तत्र भवेदेषा बुद्धिर्यदि प्रमाणेन सदसती गम्येते तत:
प्रमाणविषयत्वादुभयोरविशेष: प्राप्त: तच्च न अनैकान्तात् सर्वमिदं गोघटादि
द्रव्यजातं प्रमाणगम्यं भेदवच्च तस्मादनेकान्तोयमिति
स्वतन्त्रपरतन्त्रोपलब्ध्यनुपलब्धिकारणभावाञ्च विशेष: सत्खलु प्रमाणस्यासम्बन्धं
स्वतन्त्रं भवति असत्तु परतन्त्रं प्रतिषेधसुखेन प्रतिपद्यते प्रदीपवदिति यथा
प्रदीपोऽपवरकादिस्थितं घटादिकमर्थं प्रतिपादयति तद्वदसदपि प्रतिपादयति। न
ह्यसप्प्रतिपत्तौ उपायान्तरमास्थीयते दृश्यमाने हि घटादिकेर्थे नानेन समानजातीयं
दृश्यान्तरमस्ति यद्यभविष्यदिदमिवाद्रक्ष्यत न च दृश्यते
तस्माद्दर्शनाभावान्नास्तीति गम्यते। एवं प्रमाणेनापि सति प्रमीयमाणे नानेन
समानजातीयं प्रमेयान्तरमस्ति यद्यभावेष्यदिदमिवामास्यत न च प्रमीयते
तस्मान्मानाभावान्नस्तीति तदेवं सत: प्रकाशवंâ प्रमाणमसदपि प्रकाशयति तत्र स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति
नोच्यन्ते चतुर्वर्गानन्तर्भावाद्वा भावप्रपञ्चवदभावप्रवञ्चोप्युद्दिष्टो वेदितव्य
इति भावोपदेशादभावप्रपञ्च उद्दिष्टो भवतीति अतश्च नोच्यन्त इति।
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्वâनिर्णयवादजल्पवितरण्डाहेत्वाभासच्छलजातिनिग्रइस्थानानां तत्त्वज्ञानान्नि:
श्रेयसाधिगम:।।१।।
सच्च खलु षोडशधा व्यूढमुपेक्ष्यत इति। व्यूह: संक्षेप:। त एते
सद्भेदा इति सूत्रम् । सर्वपदार्थप्रधान: समासो द्वन्द्व इति किमुत्तंâ भवति। सर्व एते प्रमाणदयो विज्ञेया इति। अन्यथा हि
समासान्तरपरिग्रहाद्विशेषणत्वेनोपयुक्तानां प्रमाणदीनामविज्ञेयता स्यात् यथावचनं
विग्रह: यदेव निर्देशे वचनभेदोपादाने प्रयोजनं तदिहापि द्रष्टव्यम् । प्रमाणदीनां
तत्त्वमिति शैषिकी षष्ठी । क: पुन: शेष: कारकाणमविवक्षा शेष इति। यत्र न कारवंâ कारकार्थो वा विवक्ष्यते स शेष: तद्यथा ब्राह्मणस्य कमण्डलुरिति।
तत्त्वस्य प्रमाणादिभ्योऽन्यानन्यत्वे दोष: यदि तावत् प्रमाणादिव्यतिरित्तंâ तत्त्वं न प्रमाणाद्यधिगमान्नि:श्रेयसाधिगम इति प्राप्तम् । विंâ कारणं तत्त्वविशेषणत्वेनोपादानात् राजपुरुषाननयनक्रियावदिति।
अथाऽभेदस्तत्त्वग्रहणानर्थक्यं यदि प्रमाणादिव्यतिरित्तंâ तत्त्वं न प्रतिपद्यसे एवं तर्हि तत्त्वग्रह्वणमनर्थवंâ सम्पद्यते नोभयथाप्यदोषादित्येके । यदि तावत् प्रमाणादिव्यतिरित्तंâ तत्त्वं स्यात् तस्यास्वतन्त्रत्वात् प्रमाणादयोपि गम्यन्त इति कुण्डे
बदरवृत्तिवदिति यथा कुण्डे बदराणां वृत्तिरिति भावे देशिते भावस्यास्वतन्त्रत्वात्
कुण्डे बदराणि वर्तन्त इत्युत्तंâ भवति। तथेहापि
तत्त्वज्ञानाभिन्न:श्रेयसाधिगम इति प्रमाणदीनां ग्रहणं भास्यास्वतन्त्रत्वादिति।
अभेदेपीषुस्थितिवत्तद्भावप्रतिषेधो नार्थन्तमिति न प्रमाणादिमात्रमुच्यते अपि
त्वर्थान्तरं प्रतिषिध्यते। यथेषो: स्थितिरिति नेषुमात्रं स्थितिरपि तु
गतिमदर्थान्तरं न भवतीति। तन्न।
अनर्थान्तरत्वासिद्धे:। तत्त्वज्ञानान्नि: श्रेयसाधिगम इति तत्त्वं ज्ञायमानं कर्म
सम्पद्यते नि:श्रेयसमधिगम्यमानं कर्म भवतीति। विंâ पुनस्तत्त्वं
विंâ वा नि:श्रेयसमिति। तत्त्वं पदार्थानां
यथावस्थितात्मप्रत्ययोत्पत्तिनिमित्तत्वं यो यथावस्थित: पदार्थ: स
तथाभूतप्रत्ययोत्पत्तिनिमित्तं भवति यत् तत् तत्त्वम् । नि:श्रेयसं
पुनद्र्दष्टद्दष्टभेदाद्द्वेधा भवति। तत्र प्रमाणादिपदार्थतत्त्वज्ञानान्निश्रेयसं
द्दष्टं न हि कश्चित्पदार्थो ज्ञायमानो हानोपदानोपेक्षाबुद्धिनिमित्तं न भवतीति
एवं च कृत्वा सर्वे पदार्था ज्ञेयत्तयोपक्षिप्यन्ते इति। परन्तु
नि:श्रेयसमाप्मादेस्तत्त्वज्ञानाद्भवति दृष्टं प्रमाणादिपरिज्ञानाददृष्टं
पुनरात्मादे: प्रमेयस्य परिज्ञानादिति न प्रमाणमस्ति । न नास्त्यर्थस्य तथाभावात्
अर्थ एवायं तथाभूतो यदात्मादे: प्रमेयस्य तत्त्वज्ञानान्नि:श्रेयसमधिगम्यते । यदा
हायमात्मादि प्रमेयं विपर्ययेणाध्वसितो भवति । अथ संसारं नातिवर्तत इति । एनं
चार्थं द्वितीयसूत्रे प्रतिपादयिष्याम:। यदि पुन:
प्रमाणादिपदार्थतत्त्वज्ञानान्नि:श्रेयसं स्यान्न मोक्ष्यमाणा मोक्षाय घटेरन् न हि
कस्यचित् ×ाâचिच्च तत्त्वज्ञानं
नास्तीति तस्मादात्माद्येव प्रमेयं मुमुक्षुणा ज्ञेयमिति। पृथगुपदेशाच्च। यदि
प्रमाणद्येव प्रमेयं स्यात् तस्य च परिज्ञानान्नि:श्रेयसं भवेत् । नात्मा दि
प्रमेयं पृथगुपदिष्टं स्यात् । प्रमेयार्थावधारणार्थायां चोत्तरसूत्रप्रक्रियायां
प्रमेयस्य विहितत्वादाद्येन सूत्रेणाकुशल: सूत्रकार: स्यात्।
तच्चैतदुत्तरसूत्रेणानूद्यत इति भाष्यम्।
हेयहानोपायाधिगन्तव्यभेदाच्चत्वार्यर्थपदानि सम्यग्बुद्ध्वा नि:श्रेयसमधिगच्छतीति।
हेयं दु:खं तस्य निर्वर्तकमविद्यातृष्णे धर्माधर्माविति । हानं तत्त्वज्ञानं
तस्योपाय: शास्त्रम् । अधिगन्तव्यो मोक्ष:। एतानि चत्वार्यर्थपदानि
सर्वास्वध्यात्मविद्यासु सर्वाचार्यैर्वण्र्यन्त इति। संशयाद्यग्रहणं पृथव्â प्रमेयान्तरर्भवादिति चेत्। न विद्याप्रस्थानभेदज्ञापनार्थत्वादिति।
संशयादय: प्रमयेन्तर्भवन्तीति पृथव्â ते न वक्तव्या:। न
विद्याप्रस्थानभेदज्ञापनार्थत्वात् । चतस्र इमा विद्या भवन्ति ताश्च
पृथक्प्रस्थाना:। अग्निहोत्रहवनादिप्रस्थानात्रयी। हलशकटादिप्रस्थाना वार्ता।
स्वाम्यमात्यभेदानुविधायिनी दण्डनीति: । संशयादिभेदानुविधायिनी आन्वीक्षिकी ।
तस्या: संशयादिप्रस्थानमन्तरेणात्मविद्यामात्रमियं स्यात् तत: िंक स्यात्
अध्यात्मविद्यामात्रत्वादुपनिषद्विद्यावत् त्रय्यामेवान्तर्भाव इति च तुष्ट्वं
निवर्तते तस्मात् पृथग्गृह्यन्त इति । तत्र
संशयस्यातद्वस्तुस्वरूपावनधारणात्मक: प्रत्यय:। अनवधारणात्मकश्च प्रत्ययश्चेति
व्याहन्यबे। न व्याघात: स्वरूपावधारणात् स्वरूपमस्यावधार्यते अस्ति मे
संशयज्ञानमिति । वस्तुस्वरूपं तु नानेन परिच्छिद्यते। तदुभयमनवधरणात्मकश्च प्रत्ययश्चेति।
स कथं न्यायस्याङ्गं भवतीति। यस्मान्ननुपलब्धे न निर्णीते न्याय: प्रवर्तते ।
उपलब्धोऽनिर्णीतश्चेति व्याहतम्। यद्युपलब्धो
नानिर्णीतोऽथानिर्णीतो नोपलब्ध उपलब्धोऽनिर्णीतश्चेति व्याहतम्। नास्ति व्याघात:
सामान्येनोपलब्धो विशेषतोऽनिर्णीत इति। एवमपि यथोपलब्धस्तथाऽनिर्णीत इति
व्याघातानिवृत्ति: नानिवृत्ति: यथा ब्रथेति व्यपदेशात् सर्वथा निर्णीते यथा निर्णीतस्तथोपलब्ध इत्यनर्थवंâ स्यात् । तस्मात् सामान्यत उपलब्धो विशेषोऽनिर्णीत इति । स चायं संशय
एवंभूत: प्रमेयेन्तर्भृत एवमर्थं पृथगुच्यते । अथ प्रयोजनम् । विंâ पुन: प्रयोजनमिति । येन प्रयुक्त: प्रवर्तते तत् प्रयोजनमिति लौकिकोयमर्थ:
। केन प्रयुज्यते। धर्मार्थकाममोक्षैरिति केचित् । वयं तु पश्याम:
सुखदु:खाप्त्हिानिभ्यां प्रयुज्यत इति। सुखदु:खसाधनभावात्तु सर्वेऽर्थाश्चेतनं
प्रयोजनन्तीति । तदिदं प्रयोजनं न्यायस्याश्रय:। क आश्रयार्थ: आधारार्र्थस्तावन्न
भवति । उपकारकत्वमाश्रयार्थ; तन्मूलत्वात् परीक्षाविधे:। प्रयोजने सति परीक्ष्यत इति प्रयोजनं परीक्षां
प्रवर्तयतीति। का पुनरियं परीक्षा । न्याय: । क: पुनरयं न्याय:।
प्रमाणैरर्थपरीक्षणं न्याय:। किमुत्तंâ भवति।
समस्तप्रमाणव्यापारादर्थाधिगतिन्र्याय इति। नैवैâवंâ प्रमाणमर्थपरिच्छेदहेतुभावेन व्यवतिष्ठमानं न्याय इत्युच्यते किन्तु
समस्तानि। सोऽयं विप्रतिपन्नपुरुष्ज्ञप्रतिपादकत्वात् परमो न्याय इति वक्ष्याम:।
प्रत्यक्षागमाश्रितमनुमानं प्रत्यक्षागमाश्रितमिति प्रत्यक्षागमाविरोधि
यदिहानुमाना धिगतोऽर्थ: प्रत्यक्षागमाभ्यामनुसन्धीयते
अथ स्पुâटतर: प्रत्ययो भवति । यत्र पुनरेतानि प्रमाणानि
इतरेतराप्रतिसंहितानि व्यावृत्तानि प्रयुज्यन्ते । न्यायविप्लवोऽसौ
लाभपूजाख्यातिकामैस्तीर्थप्रतिरूपक: प्रवादो वण्र्यते। यत्पुनरनुमानं
प्रत्यक्षागमविरोधि स न्यायाभास इति। प्रत्यक्षविरुद्धं तावत् वह्निरनुष्ण: कृतकत्वाद्घटादिदिवत्
। क: पुनरस्यानुमानस्य विरोध: अनुमानाविषये प्रयोग:। नायमनुमानस्य विषये प्रयोग:
नायमनुमानस्य विषय: यस्मिन् विषये एतत्प्रयुज्यते स प्रत्यक्षेणापहृत इति । अपवरे
पुनरश्रावण: शब्द इति प्रत्यक्षविरोध वर्णयन्ति तैस्तु
न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य विषय इति । विंâ कारणम् इन्द्रियवृत्तीनामतीन्द्रियत्वात् श्रावणत्वं चेन्द्रियवृत्ति; सा कथं प्रत्यक्षा भवति। आगमविरुद्धं शुचि नरशिर:कपालं प्राण्यङ्गत्वात्
शङ्खशुक्तिवदिति। कथमिदमागमविरुद्धं । शुचि नरशिर: कपालमिति ब्रुवता शुच्यर्थो
वाच्य: किसुत्तंâ भवति शुचीति । यदि स्प्रष्टु:
प्रत्यवायाभाव: स कस्येति वाच्यम् । यद्यात्मन इति ब्रूयात्
तदागमार्थानुष्ठानतात्पर्येणावस्थानादेवमेतत् । अथ त्रयीविदामिति ब्रूयात्
त्रय्यभ्युपगमाद्विरोध इति वाच्यम्। शुचि नरशिर:कपालमिति कोऽर्थ: विशेशविधानमेतत्
विशेषविधानं हि शेषनिषेधविषयं यदि श्रुति नरशिर: कपालमिति किमशुचीति वाच्यम्। अथ
सर्वमेव शुचीति दृष्टान्तो नास्ति सर्वस्य पक्षीकृतत्वादिति । अथानुमानविरुद्धं
कस्मादनुमानं न भवति एकस्मिन्ननुमानद्वयसमावेशस्यासम्भवात्। न विरोध:। न ह्यन्वयव्यतिरेकसम्पन्ने
अनुमाने एकस्मिन्नर्थे समाविशत: तस्यान्ननुमानविरुद्धम् । प्रत्यक्षविरोध्यपि
तर्हि न प्राप्नोति। न न प्राप्नोति अन्वयव्यतिरेकसम्पन्नस्य प्रत्यक्षेण
बाधितत्वात् । अथोपमानविरुद्धं कस्मान्न भवति नोपमानविरुद्धं
पूर्वप्रमाणविरोधानुविधानात् । उपमानविरोध: पूर्वप्रमाणनुविधायी
आगमाहितसंस्कारस्मृत्यपेक्षं च सारूप्यज्ञानमुपमानमिति वक्ष्याम:।
प्रत्यक्षागमयोर्विरोधादुत्तंâ तदिति । तत्र वादजल्पौ
सप्रयोजनाविति भाष्यम् । तस्य कुत उत्थानं तेनानेन प्रयोजननेन सर्वे प्राणिन:
सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ता इति तत्र वादजल्पौ विंâप्रयोजनाविति युक्तो विचार इत्याह । तत्र वादजल्पौ सप्रयोजनाविति। तस्मिन्
न्यायाभास इति । वितण्डा तु परीक्ष्यते सप्रयोजना निष्प्रयोजन वेति । एके
तावद्वर्णयन्ति निष्प्रयोजना दूषणमात्रत्वात् । तच्च नैवं न दूषणमात्रं वितण्डा
किन्त्वभयुपेत्य पक्षं यो न स्थापयति स वैतण्उिक उच्यते । अथ पक्षमपि न
प्रतिपद्यते उन्मत्तवदुपेक्षणीय: स्यात् । अथ परपक्षप्रतिषेधज्ञापनं प्रयोजनमिति
तादृगेवैतत् । एतस्मिन्नपि चतुर्वर्गं चेत् प्रतिपद्यते सोऽस्य पक्ष: चतुर्वर्गो
भाष्य उक्त:। अथ न प्रतिपद्यते पूर्ववदुपेक्षणीय: । प्रतिपक्षस्थापनाहीनं च वाक्यं
वितण्डेत्युच्यते । तस्य यद्यर्थं प्रतिपद्यते सोऽस्य पक्ष:। अथ न प्रतिपद्यते
पूर्ववद्दोष इत्युत्तंâ प्रयोजनमिति।
प्रत्यक्षविषयोऽर्थों दृष्टान्त:। किमुत्तंâ भवति।
लौकिकपरीक्षकाणां दर्शनाविघातहेतुरिति। एवं चात्मादिव्याप्तिरिति
दर्शनाविघातहेतुत्वेन दृष्टान्ते वण्र्यमाने आत्मादि व्याप्तं भवति ।
प्रत्यक्षादिविषयतायां चात्मादि त्यत्तंâ भवति ।
ततश्चोदाहरणसूत्रं व्याहन्येत । सोऽयं दृष्टान्त: प्रमेयमुपलब्धिविषयत्वात् तस्य
पृथगुपदेशो न्यायस्य तन्मूलत्वात् सति तस्मिन्ननुमानागमौ स्यातामसति तु न
स्यातामिति पूर्वं प्रत्यक्षदृष्टमर्थमनुमिमते । पूर्वं ज्ञातं चार्थं परस्मै
आचक्षते नास्तिकस्य च व्याघातो ऽभ्युपगमे ऽनभ्युपगमे वा तदुत्तंâ भाष्य इति। अभ्युपगमव्यवस्था सिद्धान्त:। अभ्युपगम इदमित्थम्भूतं वेति।
इदमिति सामान्यत इत्थम्भूतमिति विशेषतस्तस्य व्यवस्था इदं सांख्येष्विदं
योगेष्विति। सर्वतन्त्रसिद्धान्तस्तर्हि न सिद्धान्तोऽव्यवस्थानात् न ह्यं ×ाâचिह्यवतिष्ठत इति । तच्च न योऽयं सर्वैरभ्युपगम
इयमेवं व्यवस्था तस्य प्रमेये ऽन्तर्भूतस्य पृथग्वचनं वादादिविषयत्वात्
सिद्धान्तभेदे हि वादजल्पवितण्डा: प्रवर्तन्ते इति । अथावयवा वाक्यैकदेशा: विंâ पुनर्वाक्यं पूर्वपदस्मृत्पेक्षो ऽन्त्यपदप्रत्यय: स्मृत्यनुग्रहणे
प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यं तस्य भागा एकदेशा इति । ते कियन्त:
यावद्भि: सिद्धि: परिसमाप्यत इति । का पुनरियं सिद्धि: पदार्थस्य तथाता
का परिसमाप्ति: विशेषप्रत्यय: ते समाख्याशब्दैरभिधीयन्ते प्रतिाादय
इति तत्रागम: प्रतिज्ञेति न युत्तंâ आगमस्य
तत्त्वव्यवच्छेदकत्वात् प्रतिज्ञार्थस्य च प्रतिपाद्यत्वात् आगमाधिगतस्य
प्रतिपाद्यत्वात् आगम: प्रतिज्ञेति न दोष: य एवार्थ आगमेनाधिगतस्तमेव परस्माआचष्ट
इत्यागम: प्रतिज्ञेयत्युच्यते । एवं लिङ्गदर्शनमात्रे हेतूपचाराद्धेतुरनुमानमिति।
यत्तु द्वितीयं लिङ्गदर्शनं तत्सम्बन्धस्मृतिव्यक्तिहेतुभावाद्धेतुरित्युच्यते।
स्मृतिविषयस्य प्रत्यक्षत: पुनरुपदर्शनादुदाहरणं प्रत्यक्षं यस्मात्
पूर्वानुभूतमर्थं स्मरति स्मृतं च विषयमुदाहरणत्वेनादत्ते। तेन
पूर्वानुभवप्रसिद्धमनुविधीयमानं प्रत्यक्षमिव प्रत्यक्षमिति। क: पुनरुपमानार्थ:
अविप्रतिपत्ति: यथा प्रत्यक्षे न विप्रतिपद्यते एवमुदाहरणेऽपीति । यथा
तथेत्युपमानैकदेशे उपमानोपचारादुपमानमुपनय इति। उपमानं खलु यथा तथेत्युपदेशोपयोगे
सति प्रत्यक्षागमस्मृतिपूर्ववंâ सारूप्यज्ञानमुपमानमिति
तत्रोपमानैकदेशे उपमानमित्युपचरन्ति। सर्वेषामेकार्थसमवाये सामथ्र्यप्रदर्शनं
निगमनमिति। क: पुनरेकार्थसमवाय: एकवाक्याध्यारोप: विंâ पुन:
सामथ्र्यं इतरेतरसम्प्रत्यायतिार्थापेक्षित्वम्। एतच्च वक्ष्याम इति । निगम्यन्ते
ऽनेन प्रतिज्ञादय एकार्थेन सम्बद्ध्यन्त इति । सोऽयं परमो न्याय इति । क: पुन:
परमार्थ: विप्रतिपन्नपुरुषप्रतिपादकत्वम् एवैâकश; प्रमाणानि प्रवृत्तानि न विप्रतिपन्नं पुरुषं प्रतिपादयन्ति
वाक्याभावपन्नानि पुनर्विप्रतिपन्नमतोऽयं परम इति । विंâ ? पुनरवयवा: प्रामणान्तरमुत तेष्वन्तर्भवन्तीति । विंâ चात; यदि प्रमाणान्तरं परिसंख्यानमयुक्तम् अथ
तेष्वेवान्तर्भवन्ति पृथगभिधानार्थक्यमवयवानामिति। न प्रमाणान्तरमिति ब्रूम:।
संहतानामेतेषां वाक्यपरतन्त्राणां
विप्रतिपन्नपुरुषप्रतिपादकत्वेन पृथगुपादानमिति । त एते ऽवयवा: पृथग्भवन्तो
वादजल्पवितण्डानां प्रवृत्ति भवन्ति । तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति । क
आश्रयार्थ:। विशेषप्रतिपादकत्वमिति । तर्को न प्रमाणसंगृहीतो न
प्रमाणान्तरमपरिच्छेदकत्वात् प्रमाणं परिच्छेदवंâ न
तर्वâ:। तस्मान्न प्रमाणं न प्रमाणान्तरमप्यत एव ।
प्रमाणविषयविभागात्तु प्रमाणानामनुग्राहक: । य: प्रमाणानां विषयस्तं विभजते । क; पुनर्विभाग:? युक्तायुक्तविचार: इदं
युक्तमिदमयुक्तमिति । यत्तत्र युत्तंâ भवति तदनुजानाति
न त्ववधारयति । अनवधारणात् प्रमाणान्तरं न भवति। तस्योदाहरणं भाष्ये कर्मनिमित्तं
जन्मेति । कथं पुन: कर्मनिमित्तं जन्म भेदवत्त्वात् । क: पुनभेर्द: सुगतिर्दुर्गतिश्चेति । सुगतौ देवो मनुष्य इति । मनुष्यत्वे
पुमानितर इति । पुंस्त्वे ब्राह्मणोऽन्य इति । ब्राह्मणत्वे पट्विन्द्रियो
मूद्विन्द्रिय इति । पट्विन्द्रियतायामुच्चाभिजनो नीचाभिजन इति । उच्चाभिजनतायां
सकलो निष्फल इति। साकल्ये विद्वान् मूर्ख इति । विद्वत्तायां समाश्वासी परित्रस्त
इति । समाश्वासे वशी परायत्त इति। दुर्गतावपि तिर्यङ् नारक इति । नारकत्वेपि वूâटशाल्यमल्यामय: कुम्भ्यामिति। तिर्यक्तायां गौरितर इति। सोऽयंं
भेदोऽनेमवस्थितमनित्यमेकद्रव्यं प्रत्यामनियतं निमित्तमन्तरेण न युक्त:। विंâ कारणं? पृथिव्यादीनां सर्वपुरुषसाधारण्यात्
पृथिव्यादिगतस्य च नियमहेतोरभावात् सर्वं सर्वात्मवंâ प्रज्येत।
दृष्टश्च नियमभेदस्तस्मात् कर्म नियामकमिति। सोऽयमित्थम्भृतस्तर्वंâ उपलब्धिविषयत्वात् प्रमेयम् ।
निर्णयस्तत्त्वज्ञानं प्रमाणानां फलम् । कदा पुनर्निर्णय:
प्रमाणानां फलमिति?। यदा वस्त्वन्तरपरिच्छेदहेतुत्वेन
नोपादीयते तदा फलं यदा तेन परिच्छिनत्ति तदा प्रमाणमिति न व्यवतिष्ठते
प्रमाणभलभाव:। एतच्च वक्ष्याम: ‘‘प्रमेयता च तुलाप्रामाण्यव’’
दित्येतस्मिन् सूत्रे निमित्तद्वयसमावेशादेवंâ वस्तु
द्विशब्दवाच्यमिति । तावेतौ तर्वâनिर्णयौ लोकयात्रामुद्वहत
इति। बुद्धा बुद्धा लोक: प्रवर्तमानस्तर्वâनिर्णयाभ्यां हेयं जाहति उपादेयं चोपादत्ते। अस्यान्तर्भाव: प्रमाणेषु
प्रमेयेषु वा यदा फलं तदा प्रमेयं यदा तेन परिच्छिनत्ति तदा प्रमाणमिति।
वादो नानाप्रवक्तृक इति सिद्धान्तभेदानुविधानान्नानववत्तृâक इति प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावसान इति। अधिकरणमधिकरणं प्रति
प्रत्यधिरणम् अस्य साधनमिति । किमुत्तंâ भवति ।
उभाभ्यां साधनं वक्तव्यमिति । अन्यतरस्मिन्नधिकरणे निर्णय: । एतच्च वक्ष्याम:।
सोऽयं विंâरूपो वाद:? वाक्यसमूह
इत्याह । ननु च प्रमाणतर्वâसाधनोपालम्भ इति श्रूयते
प्रमाणानि च ज्ञानात्मकानि ‘‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञान’’ मित्येवमादिना
प्रक्रमेण प्रमाणानि ज्ञानात्मकानीनत्युत्तंâ तर्वâश्चोह: स चोहो ज्ञानात्मक एव तस्माद्वाक्यसमूहोवाद इत्ययुक्तम्। न।
प्रमाणतर्वâसाधनोपालम्भस्यान्यथा व्याख्यानात् तच्च सूत्रं
वर्णयिष्यन्तो वक्ष्याम: ।
तद्विशेषौ जल्पवितण्डे इति । क:
पुनर्विशेषोऽङ्गाधिक्यमङ्गहानिश्चेति । छलजातिनिग्रहस्थानप्रयोगादधिको जल्प: । स
प्रतिपक्षस्थापनाहीनस्तु वितण्डा । एतावता विशेषेण कथामार्गभेद इति । विषयभेदाच्च
भेद: शिष्यादिविषयो वाद: शिष्यमाणविषये जल्पवितण्डे इति ।
अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतव: सन्तो हेतुवदाभासन्त
इति हेत्वाभासा:। ते च निग्रहस्थानम् । निग्रहस्थानप्राप्तानां पुनरेषां
पृथगुपदेशो वादे देशनीत्यत्वादिति भाष्यम् । यस्मात् किलैते वादे देश्यन्ते अत:
पृथगुपदिश्यन्ते । नोभयथाप्यसम्बन्धात् न वादे देशनीयत्वं पृथगुपदेशाविनाभावि, पृथगुपदेशो वा वादे देशनीयत्वाविनाभावीवात यदि तावद्य: पृथगुपदिश्यते स
वादे देश्यत इति सर्वे पदार्था वादे देशनीया; प्रसज्यन्त
इति । विंâ कारणं? सर्वे
पृथगुपदिष्टा इति । अथ वादे देश्यन्ते ते पृथगुपदिश्यन्त इति । तदपि नानेकान्तात्
। न तावन्निग्रहस्थानेभ्यो न्यूनाधिकयो: पृथगुपदेशोऽथ च देश्येते वादे ।
तस्माद्वादे देशनीत्यत्वादेषां पृथगुपदेश इति यत्किञ्चिदेतत्। एतदेव तु न्याय्यं
पृथगुपदेशप्रयोजनं विद्याप्रस्थानभेदज्ञापनार्थत्वादिति। अथ
कस्मान्निग्रहस्थानभावापन्नानां हेत्वाभासानां पृथगुपदेश इति। प्रमाणसामान्यात्
पृथगुपदेश इति । अथ कस्माद्वादे देश्यन्ते प्रमाणसामान्यात्। प्रमाणानि वादे
ऽभिधीयन्ते प्रमाणसामान्यं च हेत्वाभासेऽस्तीति । अत: प्रमाणसामान्यद्वादे
ऽभिधी्यन्त इति । अथ वादे निग्रहस्थानानि कानि चित्
सन्ति कानिचिन्नेति किमयं पदार्थानां नियोग:, अथ
तथाभूतानामन्वाख्यान मिति?, विंâ चात; यदि तावन्नियोग एवं भवतैवं मा भवतेति एवं
पदार्थाननुयुञ्जानो भवानुपेक्षणीय:। अथ स्वरूपत एवावस्थिता: पदार्थास्ताननुजानाति
भवान् कस्मान्निग्रहस्थानानि कानिचिद्वादे भवन्ति कानिचिन्नेति वक्तयम्। न।
लक्षणपरतन्त्रत्वादर्थतथाभावस्येति ब्रूम:। न पदार्था वत्तृâनियोगमनुविधीयन्ते
। यथा तु भवन्ति तथाभूता एवार्था अन्वाख्यायन्ते। सोऽयं लक्षणपरन्त्रत्वमाचक्षाणो
नाभ्याख्येय: पदार्था भवतिा नियुज्यन्त इति वादस्य शिष्यादिविषयत्वात् । न च
शिष्यादिभि: सह वादं कुर्वाणेनापि अप्रतिभादिदेशना कार्या, तावदस्याभिधेयं यावदसौ बोधितो भवतीति।
प्रमाणप्रतिरूपकत्वाद्धेत्वाभासानामविरोध इति । विंâ कारणं? भ्रान्ते: पुरुषधर्मत्वात् पुरुषधर्म एव भ्रान्तिरिति । सोऽयं भ्रान्त्या
प्रमाणं ब्रुवन् प्रमाणाभासमपि ब्रूते अतोस्य निग्रह इति । क: पुन:
शिष्याचार्यद्योर्निग्रह:? विवक्षितार्थाप्रतिपादकत्वम्।
न्यूनाधिकापसिद्धान्तानां वादे कथमवतार:? प्रमाणसामान्यादेव।
न्यूनस्यापि प्रमाणसामान्यमधिकस्यापि। अवयवविहीनताऽवयवाधिक्यं वाक्यस्य भ्रान्त्या
भवतीत्यस्यावतार:। जल्पवितण्डायोस्तु निग्रहस्थानानीति
विजिगीषुभिर्जल्मपवितण्डाभ्यां प्रत्यवस्थेयम् । तस्य यथासम्भवं निग्रहस्थानानि
वक्तव्यानीति नोपेक्षणीय:। छलजातिनिग्रहस्थानानां स्ववाक्ये परिवर्जनं परवाक्ये
पर्यनुयोग: परिज्ञानार्थमेव केवलम् । छलजातिनिग्रहस्थानानि स्वयं न०
प्रयोक्तव्यानि जातेश्च स्वयं सुकर: प्रयोग इति न, व्याघातात्, स्ववाक्ये परिवर्जनं सुकरश्च प्रयोग इति व्याहतम् यदि सुकर: प्रयोगो न
स्ववाक्ये परिवर्जनम्, अथ स्ववाक्ये परिवर्जनं न सुकर:
प्रयोग इति व्याघात: । न व्याघात:, प्रश्नापाकरणार्थवात्
। स्वयं च सुकर: प्रयोग इति किमुत्तंâ भवति । परेण जातौ
प्रयुक्तायां प्राश्निकान् ब्रवीति जातिरनेन प्रयुत्तेâति त
एनं पर्यनुयुञ्जीरन् कथं जातिष्कतमा जाति रतो जात्यभिज्ञ: शव्नâोति वत्तुâमेवं जातिरियं जातिरिति। एवं च सुकर:
प्रयोग इति। तस्मादेते संशयादय: पदार्था: प्रमाणे प्रमेये चान्तर्भवन्तो
विद्याप्रस्थानभेदज्ञापनार्थं पृथगुपदिष्टा:।
सेयमान्वीक्षिकी न्यायविद्या प्रमाणादिभि: पदार्थैर्विभज्यमाना
प्रदीप: सर्वविद्यानां भवति प्रकाशकत्वात् प्रदीपवत् प्रमाणादि
प्रतिपादितमर्थमितरा विद्या: प्रतिपद्यन्त इति। किमितरासु विद्यासु प्रमाणादीनि न
सन्ति? न सन्तीत्याह । कथं न सन्ति? अनधिकारात् । न ता: विद्या: प्रमाणादिपरिज्ञानेनाधिक्रियन्ते इति
प्रमाणादिप्रकाशिते त्वर्थे ता: प्रवर्तन्त इति। उपाय: सर्वकर्मणामिति ।
प्रकाशितानां करणादुपाय: यस्मात् प्रमाणादिप्रकाशितमर्थमितरा
विद्या: कुर्वन्ति । आश्रय: सर्वधर्माणामिति। सर्वविद्योपकारकत्वादाश्रय:।
सर्वासां विद्यानामियमुपकरोति उपकारित्वादाश्रयो राजभृत्यवदिति ।