होम
बारे में
आईकेएस प्रभाग
न्यायदर्शनम्
न्यायसूत्रवृत्तिप्रस्थानपरम्परा
न्यायसूत्रभाष्यप्रस्थानपरम्परा
न्यायदर्शन स्वतन्त्र ग्रन्थपरम्परा
वैशेषिकदर्शम्
वैशेषिकसूत्रप्रस्थानपरम्परा
वैशेषिकदर्शन-भाष्यप्रस्थानपरम्परा
वैशेषिकदर्शन स्वतन्त्रग्रन्थपरम्परा
नव्यन्यायदर्शनम्
तर्कसंग्रह:
न्यायसिद्धान्तमुक्तावली
वीडियो
नव्यन्यायदर्शनम्
न्यायदर्शनम्
वैशेषिकदर्शनम्
ऑडियो
नव्यन्यायदर्शनम्
न्यायदर्शनम्
वैशेषिकदर्शनम्
ई कक्षा
लॉग इन करें
होम
न्यायसूत्रभाष्यप्रस्थानपरम्परा
न्यायदर्शनम्
न्यायसूत्रभाष्यप्रस्थानपरम्परा (न्यायदर्शनम्)
ग्रन्थपरिचय:
ग्रन्थपरिचय:
प्रथम आह्निक- प्रथम अध्याय
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्व-ज्ञानान्नि:श्रेयसाधिगम: १.१.१
दु:खजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग: १.१.२
प्रत्यक्षानुमानोपमानशब्दा: प्रमाणानि १.१.३
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् १.१.4
अथ तत्पूर्व्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च १.१.५
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् १.१.६
आप्तोपदेश: शब्द: १.१.७
स द्विविधो दृष्टादृष्टार्थत्वात् १.१.८
आत्मशरीरेन्द्रियार्थबुद्धिमन: प्रवृत्तिदोषप्रेत्यभावफलदु:खापवर्गास्तु प्रमेयम् १.१.९
इच्छाद्वेषप्रयत्नसुखदु:खज्ञानान्यात्मनो लिङ्गमिति १.१.१०
चेष्टेन्द्रियार्थाश्रय: शरीरम् १.१.११
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्य: १.१.१२
पृथिव्यापस्तेजो वायुराकाशमिति भूतानि १.१.13
गन्धरसरूपस्पर्शशब्दा: पृथिव्यादिगुणास्तदर्था: १.१.१४
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् १.१.१५
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १.१.१६
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ: १.१.१७
प्रवर्त्तनालक्षणा दोषा: १.१ १८
पुनरुत्पत्ति: प्रेत्यभाव: १.१.१९
प्रवृत्तिदोषजनितोऽर्थ: फलम् १.१.२०
बाधनालक्षणं दु:खम् १.१.२१
तदत्यन्तविमोक्षोऽपवर्ग: १.१.२२
समानानेकधर्म्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्चविशेषापेक्षो विमर्श: संशय: १.१.२३
यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम् १.१.२४
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त: १.१.२५
तन्त्राधिकरणाभ्युपगमसंस्थिति: सिद्धान्त: १.१.२६
सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगसंस्थित्यर्थान्तरभावात् १.१.२७
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थ: सर्वतन्त्रसिद्धान्त:१.१.२८
समानतन्त्रसिद्ध: परतन्त्रासिद्ध: प्रतितन्त्रसिद्धान्त: १.१.२९
यत् सिद्धावन्यप्रकरणसिद्धि: सोऽधिकरणसिद्धान्त: १.१.३०
अपरीक्षितभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्त: १.१.३१
प्रतिज्ञाहेतूदाहरणोपयननिगमनान्यवयवा: १.१.३२
साध्यनिर्देश: प्रतिज्ञा १.१.३३
उदाहरणसाधर्म्यात् साध्यसाधनं हेतु: १.१.३४
तथा वैधर्म्यात् १.१.३५
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् १.१.३६
तद्विपर्य्ययाद्वा विपरीतम् १.१.३७
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय: १.१.३८
हेत्वपदेशात् प्रतिज्ञाया: पुनर्वचनं निगमनम् १.१.३९
अविज्ञातत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क: १.१.४०
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय: १.१.४१
प्रथम आह्निक- द्वितीय अध्याय
प्रमाणतर्कसाधनोपालम्भ: सिद्धान्ताविरुद्ध: पञ्चावयवोपपन्न: पक्षप्रतिपक्षपरिग्रहो वाद:। न्या.सू. १.२.१
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प:। न्या.सू. १.२.२
सप्रतिपक्षस्थापनाहीनो वितण्डा। न्या.सू. १.२.3
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा:। न्या.सू. १.२.४
अनैकान्तिक: सव्यभिचार:। न्या.सू. १.२.५
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध:। न्या.सू. १.२.६
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्ट: प्रकरणसम: । न्या.सू. १.२.७
साध्याविशिष्ट: साध्यत्वात् साध्यसम:। न्या.सू. १.२.८
कालात्ययापदिष्ट: कालातीत:। न्या.सू. १.२.९
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । न्या.सू. १.२.१०
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति। न्या.सू. १.२.११
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । न्या.सू. १.२.१२
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् । न्या.सू. १.२.१३
धर्म्मविकल्पानिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् । न्या.सू. १.२.१४
वाक्छलमेवोपचारच्छलं तदविशेषात् । न्या.सू. १.२.१५
न तदर्थान्तरभावात् । न्या.सू. १.२.१६
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्ग:। न्या.सू. १.२.१७
साधर्म्यवैधर्म्याभ्यां प्रत्ययवस्थानं जाति:। न्या.सू. १.२.१८
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । न्या.सू. १.२.१९
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् । न्या.सू. १.२.२०
द्वितीय आह्निक- प्रथम अध्याय
समानानेकधर्म्माध्यवसायादन्यतरधर्म्माध्यवसायाद्वा न संशय:। न्या.सू. २.१.१
विप्रतिपत्त्यव्यवस्थाऽध्यवसायाच्च। न्या.सू. २.१.२
विप्रतिपत्तौ च सम्प्रतिपत्ते:। न्या.सू. २.१.3
अव्यवस्थाऽऽत्मनि व्यवस्थितत्त्वाच्चाव्यवस्थाया:। न्या.सू. २.१.४
तथाऽत्यन्तसंशयस्तद्धर्म्मसातत्योपपत्ते: । न्या.सू. २.१.५
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये न संशयो नात्यन्तसंशयो वा। न्या.सू. २.१.६
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्ग:। न्या.सू. २.१.७
प्रत्यक्षादीनामप्रमाण्यं त्रेकाल्यासिद्धे:। न्या.सू. २.१.८
पूर्वं हि प्रमाणिसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्ति:। न्या.सू. २.१.९
पश्चात् सिद्धौ न प्रमाणेभ्य: प्रमेयसिद्धि:। न्या.सू. २.१.१०
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् । न्या.सू. २.१.११
त्रैकाल्यासिद्धे: प्रतिषेधानुपपत्ति:। न्या.सू. २.१.१२
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधनुपपत्ति:। न्या.सू. २.१.१३
तत्प्रामाण्ये वा न सर्वप्रामाण्यविप्रतिषेध:। न्या.सू. २.१.१४
त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धे:। न्या.सू. २.१.१५
प्रमेयता च तुलाप्रामाण्यवत् । न्या.सू. २.१.१६
प्रमाणत: सिद्धे: प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्ग:। न्या.सू. २.१.१७
तद्विनिवृत्तेर्वा प्रमाणान्तरसिद्धिवत् प्रमेयसिद्धि:। न्या.सू. २.१.१८
न प्रदीपप्रकाशवत् तत्सिद्धे:। न्या.सू. २.१.१९
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् । न्या.सू. २.१.२०
नात्ममनसो: सन्निकर्षाभावे प्रत्यक्षोत्पत्ति:। न्या.सू. २.१.२१
दिग्देशकालाकाशेष्वप्येवं प्रसङ्ग:। न्या.सू. २.१.२२
ज्ञानलिङ्गत्वादात्मनो नानवरोध:। न्या.सू. २.१.२३
तदयौगपद्यलिङ्गत्वाच्च न मनस:। न्या.सू. २.१.२४
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयो: संनिकर्षस्य स्वशब्देन वचनम् । न्या.सू. २.१.२५
सुप्तव्यासक्तमनसां चेन्द्रियार्थयो: संनिकर्षनिमित्तत्वात् । न्या.सू. २.१.२६
तैश्चापदेशो ज्ञानविशेषाणाम् । न्या.सू. २.१.२७
व्याहतत्वादहेतु:। न्या.सू. २.१.२८
नार्थविशेषप्राबल्यात् । न्या.सू. २.१.२९
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धे:। न्या.सू. २.१.३०
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् । न्या.सू. २.१.३१
न चैकदेशोपलब्धिरवयविसद्भावात् । न्या.सू. २.१.३२
साध्यत्वादवयविनि सन्देह:। न्या.सू. २.१.३३
सर्वाग्रहणमवयव्यसिद्धे:। न्या.सू. २.१.३४
धारणाकर्षणोपपत्तेश्च। न्या.सू. २.१.३५
सेनावनवद् गृहणमिति चेन्नातीन्द्रियत्वादणूनाम् । न्या.सू. २.१.३६
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् । न्या.सू. २.१.३७
नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् । न्या.सू. २.१.३८
वर्त्तमानाभाव: पतत: पतितपतितव्यकालोपपत्ते:। न्या.सू. २.१.३९
तयोरप्यभावो वर्त्तमानाभावे तदपेक्षत्वात् । न्या.सू. २.१.४०
नातीतानागतयोरितरेतरापेक्षा सिद्धि:। न्या.सू. २.१.४१
वर्त्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्ते:। न्या.सू. २.१.४२
कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् । न्या.सू. २.१.४३
अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धि:। न्या.सू. २.१.४४
प्रसिद्धसाधर्म्यादुपमानासिद्धि:। न्या.सू. २.१.४५
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्ति:। न्या.सू. २.१.४६
प्रत्यक्षेणाप्रत्यक्षसिद्धे:। न्या.सू. २.१.४७
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति। न्या.सू. २.१.४८
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेष:। न्या.सू. २.१.४९
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् । न्या.सू. २.१.५०
उपलब्धेरद्विप्रवृत्तित्वात् । न्या.सू. २.१.५१
सम्बन्धाच्च। न्या.सू. २.१.५२
आप्तोपदेशसामर्थ्याच्छब्दार्थसंप्रत्यय:। न्या.सू. २.१.५३
पूरणप्रदाहपाटनानुपलब्धैश्च सम्बन्धाभाव:। न्या.सू. २.१.५४
शब्दार्थव्यवस्थानादप्रतिषेध:। न्या.सू. २.१.५५
न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य। न्या.सू. २.१.५६
जातिविशेषे चानियमात् । न्या.सू. २.१.५७
तदप्रामाण्यमनृतव्याघात पुनरुक्तदोषेभ्य:। न्या.सू. २.१.५८
न कर्म्मकर्तृसाधनवैगुण्यात् । न्या.सू. २.१.५९
अभ्युपेत्य कालभेदे दोषवचनात् । न्या.सू. २.१.६०
अनुवादोपपत्तेश्च। न्या.सू. २.१.६१
वाक्यविभागस्य चार्थग्रहणात् । न्या.सू. २.१.६२
विध्यर्थवादानुवादवचनविनियोगात् । न्या.सू. २.१.६३
विधिर्विधायक: । न्या.सू. २.१.६४
स्तुतिर्निन्दा परकृति: पुराकल्प इत्यर्थवाद:। न्या.सू. २.१.६५
विधिविहितस्यानुवचनमनुवाद:। न्या.सू. २.१.६६
नानुवादपुनरुक्तयोर्विशेष: शब्दाभ्यासोपपत्ते:। न्या.सू. २.१.६७
नानुवादपुनरुक्तयोर्विशेष: शब्दाभ्यासोपपत्ते:। न्या.सू. २.१.६७
शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेष:। न्या.सू. २.१.६८
मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यात्। न्या.सू. २.१.६९
द्वितीय आह्निक- द्वितीय अध्याय
न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् । न्या.सू. २.२.१
शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाञ्चाप्रतिषेध: । न्या.सू. २.२.२
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् । न्या.सू. २.२.३
अर्थापत्तावर्थापत्त्यभिमानात् । न्या.सू. २.२.४
प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात् । न्या.सू. २.२.५
तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् । न्या.सू. २.२.६
नाभावप्रामाण्यं प्रमेयासिद्धे:। न्या.सू. २.२.७
लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धे:। न्या.सू. २.२.८
असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्ते:। न्या.सू. २.२.९
तत्सिद्धेरलक्षितेष्वहेतु: । न्या.सू. २.२.१०
न लक्षणावस्थितापेक्षासिद्धे:। न्या.सू. २.२.११
प्रागुत्पत्तेरभावोपपत्तेश्च। न्या.सू. २.२.१२
आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च। न्या.सू. २.२.१३
न घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच्च। न्या.सू. २.२.१४
तत्वभाक्तयोर्नानात्वविभागादव्यभिचार:। न्या.सू. २.२.१५
सन्तानानुमानविशेषणात् । न्या.सू. २.२.१६
कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति। न्या.सू. २.२.१७
प्रागुच्चारणाद्यनुपलब्धेरावरणाद्यनुपलब्धेश्च। न्या.सू. २.२.१८
तदनुपलब्धेरनुपलम्भादावरणोपत्ति:। न्या.सू. २.२.१९
अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् । न्या.सू. २.२.२०
अनुपलम्भात्मकत्वादनुपलब्धेरहेतु:। न्या.सू. २.२.२१
अस्पर्शत्वात् । न्या.सू. २.२.२२
न कर्म्मानित्यत्वात् । न्या.सू. २.२.२३
नाणु नित्यत्वात् । न्या.सू. २.२.२४
सम्प्रदानात् । न्या.सू. २.२.२५
तदनुपलब्धेरहेतु:। न्या.सू. २.२.२६
अध्यापनादप्रतिषेध:। न्या.सू. २.२.२७
अभ्यासात् । न्या.सू. २.२.२८
नान्यत्वेऽप्यभ्यासस्योपचारात् । न्या.सू. २.२.२९
अन्यदन्यस्मादनन्यदित्यन्यताऽभाव:। न्या.सू. २.२.३०
तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धे:। न्या.सू. २.२.३१
विनाशकारणानुपलब्धे:। न्या.सू. २.२.३२
अश्रवणकारणानुपलब्धे: सततश्रवणप्रसङ्ग:। न्या.सू. २.२.३३
उपलभ्यमाने चानुपलब्धेरसत्वादनपदेश:। न्या.सू. २.२.३४
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुलब्धि:। न्या.सू. २.२.३५
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्ग:। न्या.सू. २.२.३६
अस्पर्शत्वादप्रतिषेध:। न्या.सू. २.२.३७
विभक्त्यन्तरोपपत्तेश्चासमासे।। न्या.सू. २.२.३८
विकारादेशोपदेशात् संशय:।। न्या.सू. २.२.३९
प्रकृतिविवृद्धौ विकारबृद्धे:। न्या.सू. २.२.४०
न्यूनसमधिकोपलब्धेर्विकाराणामहेतु:। न्या.सू. २.२.४१
नातुल्यप्रकृतीनां विकारविकल्पात् । न्या.सू. २.२.४२
द्रव्यविकारे वैषम्यवद्वर्णविकारविकल्प:। न्या.सू. २.२.४३
न विकारधर्मानुपत्ते:। न्या.सू. २.२.४४
विकारप्राप्तानामपुनरापत्ते:। न्या.सू. २.२.४५
सुवर्णादीनां पुनरापत्तेरहेतु:। न्या.सू. २.२.४६
नित्यत्वे विकारादनित्यत्वे चानवस्थानात् । न्या.सू. २.२.४७
नित्यानामतीन्द्रियत्वात्तद्धर्म्मविकल्पाच्च वर्णविकाराणामप्रतिषेध:। न्या.सू. २.२.४८
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्ति:। न्या.सू. २.२.४९
विकारधर्म्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपत्तेश्चाप्रतिषेध:। न्या.सू. २.२.५०
प्रकृत्यनियमाद्वर्णविकाराणाम् । न्या.सू. २.२.५१
अनियमे नियमान्नानियम:। न्या.सू. २.२.५२
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेध:। न्या.सू. २.२.५3
गुणान्तरापत्त्युपमर्द्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारा:। न्या.सू. २.२.५४
ते विभक्त्यन्ता: पदम् । न्या.सू. २.२.५५
तदर्थे व्यक्ताकृतिजातिसंनिधावुपचारात् संशय:। न्या.सू. २.२.५६
या शब्दसमूहत्यागपरिग्रहसंख्यावृद्धयुपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्ति: । न्या.सू. २.२.५७
न तदनवस्थानात् । न्या.सू. २.२.५८
सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगंगाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचार:। न्या.सू. २.२.५९
आकृतिस्तदपेक्षत्वात् सत्वव्यववस्थानसिद्धे। न्या.सू. २.२.६०
व्यक्त्याकृतियुक्तेऽप्यप्रसंगात्प्रोक्षणादीनां मृद्गवके जाति:। न्या.सू. २.२.६१
नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्ते: न्या.सू. २.२.६२
व्यक्त्याकृतिजातयस्तु पदार्थ:। न्या.सू. २.२.६3
व्यक्तिर्गुणविशेषश्रयो मूर्ति:। न्या.सू. २.२.६४
आकृतिर्ज्जातलिंगाख्या।। न्या.सू. २.२.६५
समानप्रसवात्मिका जाति: न्या.सू. २.२.६६
नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतु:। न्या.सू. ३.१.३४
तृतीय आह्निक- प्रथम अध्याय
दर्शनस्पर्शनाभ्ययामेकार्थग्रहणात् । न्या.सू. ३.१.१
न विषयव्यवस्थानात् । न्या.सू. ३.१.२
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेध:। न्या.सू. ३.१.३
शरीरदाहे पाताकाभावात् । न्या.सू. ३.१.४
तदभाव: सात्मकप्रदाहेऽपि तन्नित्यत्वात् । न्या.सू. ३.१.५
न कार्य्याश्रयकर्तृवधात् । न्या.सू. ३.१.६
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् । न्या.सू. ३.१.७
नैकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् । न्या.सू. ३.१.८
एकविनाशे द्वितीयाविनाशाद् नैकत्वम् । न्या.सू. ३.१.९
अवयवनाशेऽप्यवयव्युपलब्धेरहेतु:। न्या.सू. ३.१.१०
दृष्टान्तविरोधादप्रतिषेध:। न्या.सू. ३.१.११
इन्द्रियान्तरविकारात् । न्या.सू. ३.१.१२
न स्मृते: स्मर्त्तव्यविषयत्वात् । न्या.सू. ३.१.१३
तदात्मगुणासद्भावादप्रतिषेध:। न्या.सू. ३.१.१४
अपरिसंखयानाञ्च स्मृतिविषस्य। न्या.सू. ३.१.१५
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् । न्या.सू. ३.१.१६
ज्ञातुर्ज्ञानसाधनोपपत्ते: संज्ञाभेदमात्रम् । न्या.सू. ३.१.१७
नियमश्च निरनुमान:। न्या.सू. ३.१.१८
पूर्वाभ्यस्तस्मृत्यनुबन्धज्जातस्य हर्षभयशोकसम्प्रतिपत्ते:। न्या.सू. ३.१.१९
पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकार:। न्या.सू. ३.१.२०
नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् । न्या.सू. ३.१.२१
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् । न्या.सू. ३.१.२२
अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् । न्या.सू. ३.१.२३
नान्यत्रप्रवृत्त्यभावात् । न्या.सू. ३.१.२४
वीतरागजन्मादर्शनात् । न्या.सू. ३.१.२५
सगुणद्रव्योत्पत्तिवत्तदुत्पत्ति:। न्या.सू. ३.१.२६
न संकल्पनिमित्तत्वाद् रागादीनाम् । न्या.सू. ३.१.२७
पार्थिवं गुणान्तरोपलब्धे:। न्या.सू. ३.१.२८
श्रुतिप्रामाण्याच्च। न्या.सू. ३.१.२९
कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चानुपलम्भात् संशय:। न्या.सू. ३.१.३०
महदणुग्रहणात् । न्या.सू. ३.१.३१
महदणुग्रहणात् । न्या.सू. ३.१.३१
रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् । न्या.सू. ३.१.३२
तदनुपलब्धेरहेतु:। न्या.सू. ३.१.३३
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियम:। न्या.सू. ३.१.३५
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धि:। न्या.सू. ३.१.३६
कर्म्मकारितश्चेन्द्रियाणां व्यूह: पुरुषार्थतन्त्र:। न्या.सू. ३.१.३७
अव्यभिचाराच्च प्रतीघातो भौतिकधर्म:। न्या.सू. ३.१.३८
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धि:। न्या.सू. ३.१.३९
न रात्रावप्यनुपलब्धे:। न्या.सू. ३.१.४०
बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धि:। न्या.सू. ३.१.४१
अभिव्यक्तौ चाभिभवात् । न्या.सू. ३.१.४२
नक्तञ्चरनयनरश्मिदर्शनाच्च। न्या.सू. ३.१.४३
अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धे:। न्या.सू. ३.१.४४
न कुड्यान्तरितानुलब्धेरप्रतिषेध:। न्या.सू. ३.१.४५
अप्रतिघातात् सन्निकर्षोपपत्ति:। न्या.सू. ३.१.४६
आदित्यरश्मे: स्फटिकान्तरेऽपि दाह्येऽविघातात् । न्या.सू. ३.१.४७
नेतरेतरधर्मप्रसंगात् । न्या.सू. ३.१.४८
आदर्शोदकयो: प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धि: । न्या.सू. ३.१.४९
दृष्टानुमितानां नियोगप्रतिषेधानुपपत्ति:। न्या.सू. ३.१.५०
स्थानान्यत्वनानात्वादवयविनानास्थानत्वाच्च संशय:। न्या.सू. ३.१.५१
त्वगव्यतिरेकात् । न्या.सू. ३.१.५२
न युगपदर्थानुपलब्धे:। न्या.सू. ३.१.५३
विप्रतिषेधाच्च न त्वगेका । न्या.सू. ३.१.५४
विप्रतिषेधाच्च न त्वगेका । न्या.सू. ३.१.५४
इन्द्रियार्थपञ्चत्वात् । न्या.सू. ३.१.५५
न तदर्थबहुत्वात् । न्या.सू. ३.१.५६
गन्धत्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेध:। न्या.सू. ३.१.५७
विषयत्वाव्यतिरेकादेकत्वम् । न्या.सू. ३.१.५८
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्य:। न्या.सू. ३.१.५९
भूतगुणविशेषोलब्धेस्तादात्म्यम् । न्या.सू. ३.१.६०
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्य्यन्ता: पृथिव्या:। न्या.सू. ३.१.६१
अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तर:। न्या.सू. ३.१.६२
न सर्वगुणानुपलब्धे:। न्या.सू. ३.१.६३
ऐकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धि:। न्या.सू. ३.१.६४
संसर्गाच्चानेकगुणग्रहणम् । न्या.सू. ३.१.६५
विष्टं ह्यपरं परेण । न्या.सू. ३.१.६६
न पार्थिवाप्ययो: प्रत्यक्षत्वात् । न्या.सू. ३.१.६७
पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् । न्या.सू. ३.१.६८
तद्व्यवस्थानन्तु भूयस्त्वात् । न्या.सू. ३.१.६९
सगुणानामिन्द्रियभावात् । न्या.सू. ३.१.७०
तेनैव तस्याग्रहणाच्च । न्या.सू. ३.१.७१
न शब्दगुणोपलब्धे:। न्या.सू. ३.१.७२
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् । न्या.सू. ३.१.७३
तृतीय आह्निक- द्वितीय अध्याय
कर्माकाशसार्ध्म्यात् संशय:। न्या.सू. ३.२.१
विषयप्रत्यभिज्ञानात् । न्या.सू. ३.२.२
साध्यसमत्वादहेतु:। न्या.सू. ३.२.३
न युगपदग्रहणात् । न्या.सू. ३.२.४
अप्रत्ययभिज्ञाने च विनाशप्रसंग:। न्या.सू. ३.२.५
क्रमवृत्तित्वादयुगपद्ग्रहणम् । न्या.सू. ३.२.६
अप्रत्यभिज्ञानञ्च विषयान्तरव्यासंगात् । न्या.सू. ३.२.७
न गत्यभावात् । न्या.सू. ३.२.८
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमान:। न्या.सू. ३.२.९
स्फटिकेऽप्यपरापरोत्पत्ते: क्षणिकत्वाद् व्यक्तीनामहेतु:। न्या.सू. ३.२.१०
नियमहेत्वभावाद् यथा दर्शनमभ्यनुज्ञा। न्या.सू. ३.२.११
नोत्पत्तिविनाशकारणोपलब्धे:। न्या.सू. ३.२.१२
क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्ति:। न्या.सू. ३.२.१३
लिंगतो ग्रहणान्नानुपलब्धि:। न्या.सू. ३.२.१४
न पयस: परिणामगुणान्तरप्रादुर्भावात् । न्या.सू. ३.२.१५
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम्। न्या.सू. ३.२.१६
क्वचिद्विनाशकारणानुपलब्धे: क्वचिच्चोपब्धेरनेकान्त:। न्या.सू. ३.२.१७
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् । न्या.सू. ३.२.१८
युगपज्ज्ञेयानुपब्धेश्च न मनस:। न्या.सू. ३.२.१९
तदात्मगुणत्वेऽपि तुल्यम् । न्या.सू. ३.२.२०
इन्द्रियैर्मनस: सन्निकर्षाभावात् तदनुत्पत्ति:। न्या.सू. ३.२.२१
नोत्पत्तिकारणानपदेशात् । न्या.सू. ३.२.२२
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्ग:। न्या.सू. ३.२.२३
अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाश: शब्दवत् । न्या.सू. ३.२.२४
ज्ञानसमेवतात्मप्रदेशसन्निकर्षान्मनस: स्मृत्युत्पत्तेर्न युगपदुत्पत्ति:। न्या.सू. ३.२.२५
नान्त: शरीरवृत्तित्वान्मनस:। न्या.सू. ३.२.२६
साध्यत्वादहेतु:। न्या.सू. ३.२.२७
स्मरत: शरीरधारणोपत्तेरप्रतिषेध:। न्या.सू. ३.२.२८
न तदाशुगतित्वान्मनस:। न्या.सू. ३.२.२९
न स्मरणकालानियमात् । न्या.सू. ३.२.३०
आत्मप्रेरणायदृच्छाज्ञताभिश्च न संयोगविशेष:। न्या.सू. ३.२.३१
व्यासक्तमनस: पादव्यथनेन संयोगविशेषेण समानम् । न्या.सू. ३.२.३२
प्रणिधानलिंगादिज्ञानानामयुगपद्भावाद् युगपदस्मरणम् । न्या.सू. ३.२.३३
प्रातिभवत्तु प्राणिधानाद्यनपेक्षे स्मार्त्ते यौगपद्यप्रसंग:। न्या.सू. ३.२.३४
ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्यो:। न्या.सू. ३.२.३५
तल्लिंगत्वादिच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्यो:। न्या.सू. ३.२.३६
परश्वादावारम्भनिवृत्तिदर्शनात् । न्या.सू. ३.२.३७
कुम्भादिष्वनुपलब्धेरहेतु:। न्या.सू. ३.२.३८
नियमानियमौ तु तद्विशेषकौ। न्या.सू. ३.२.३९
यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनस:। न्या.सू. ३.२.४०
परिशेषाद्यथोक्तहेतूपपत्तेश्च। न्या.सू. ३.२.४१
स्मरणान्त्वात्मनो ज्ञस्वाभाव्यात् । न्या.सू. ३.२.४२
प्रणिधाननिबन्धाभ्यासलिंगलक्षणसादृश्यपरिग्रहाश्रयाश्रित- सम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्ति- व्यवधानसुखदु:खेच्छाद्वेषभयार्थित्वक्रियारागधर्म्माधर्म्म- निमित्तेभ्य:। न्या.सू. ३.२.४३
कर्म्मानवस्थायिग्रहणात् । न्या.सू. ३.२.४४
व्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रूपाद्यव्यक्तग्रहणवत् । न्या.सू. ३.२.४५
हेतूपादानात् प्रतिषिद्धव्याभ्यनुज्ञा। न्या.सू. ३.२.४६
ग्रहणे हेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात् । न्या.सू. ३.२.४७
प्रदीपार्चि: सन्तत्यभिव्यक्तग्रहणवत्तद्ग्रहणम्। न्या.सू. ३.२.४८
द्रव्ये स्वगुणपरगुणोपलब्धे: संशय:। न्या.सू. ३.२.४९
यावच्छरीरभावित्वाद्रूपादीनाम्। न्या.सू. ३.२.५०
न पाकजगुणान्तरोत्पत्ते:। न्या.सू. ३.२.५१
प्रतिद्वन्द्विसिद्धे: पाकजानामप्रतिषेध:। न्या.सू. ३.२.५२
शरीरव्यापित्वात् । न्या.सू. ३.२.५३
केशनखादिष्वनुपलब्धे:। न्या.सू. ३.२.५४
त्वक्पर्य्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्ग:। न्या.सू. ३.२.५५
शरीरगुणवैधर्म्यात् । न्या.सू. ३.२.५६
न रूपादीनामितरेतरवैधर्म्यात् । न्या.सू. ३.२.५७
ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेध:। न्या.सू. ३.२.५८
ज्ञानायौगपद्यदेकं मन:। न्या.सू. ३.२.५९
न युगपदनेकक्रियोपलब्धे:। न्या.सू. ३.२.६०
अलातचक्रदर्शवत्तदुपलब्धिराशुसञ्चारात् । न्या.सू. ३.२.६१
यथोक्तहेतुत्वाच्चाणु। न्या.सू. ३.२.६२
पूर्वकृतफलानुबन्धात्तदुत्पत्ति:। न्या.सू. ३.२.६३
भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम् । न्या.सू. ३.२.६४
न साध्यसमत्वात् । न्या.सू. ३.२.६५
नोत्पत्तिनिमित्तत्वान्मातापित्रो:। न्या.सू. ३.२.६६
तथाऽऽहारस्य। न्या.सू. ३.२.६७
प्राप्तौ चानियमात् । न्या.सू. ३.२.६८
शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म्म। न्या.सू. ३.२.६९
एतेनानियम: प्रयुक्त:। न्या.सू. ३.२.७०
उपपन्नश्च तद्वियोग: कर्मक्षयोपपत्ते:। न्या.सू. ३.२.७१
तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे। न्या.सू. ३.२.७२
न करणाकरणयोरारम्भदर्शनात् । न्या.सू. ३.२.७३
मन: कर्म्मनिमित्तत्वाच्च संयोगानुच्छेद:। न्या.सू. ३.२.७४
नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्ते:। न्या.सू. ३.२.७५
अणुश्यामतानित्यत्ववदेतत् स्यात्। न्या.सू. ३.२.७६
नाकृताभ्यागमप्रसङ्गात् ।। न्या.सू. ३.२.७७
चतुर्थ आह्निक- प्रथम अध्याय
चतुर्थ आह्निक- द्वितीय अध्याय
पंचम आह्निक- प्रथम अध्याय
पंचम आह्निक- द्वितीय अध्याय
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति। न्या.सू. १.२.११
न्याय भाष्य
वात्स्यायन
×